Drona Parva, Adhyaya 72, Verse 1
तथा तस्मिन्प्रवृत्ते तु संग्रामे लोमहर्षणे
कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन्
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा तस्मिन्प्रवृत्ते तु संग्रामे लोमहर्षणे
कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन्
जलसंधं महाबाहुर्भीमसेनो न्यवारयत्
युधिष्ठिरः सहानीकः कृतवर्माणमाहवे
किरन्तं शरवर्षाणि रोचमान इवांशुमान्
धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे
ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम्
कुरूणां सोमकानां च संक्रुद्धानां परस्परम्
संक्षये तु तथा भूते वर्तमाने महाभये
द्वंद्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत्
द्रोणः पाञ्चालपुत्रेण बली बलवता सह
विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत्
पुण्डरीकवनानीव विध्वस्तानि समन्ततः
चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः
विनिकीर्णानि वीराणामनीकेषु समन्ततः
वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च
तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च
संसक्ता इव दृश्यन्ते मेघसंघाः सविद्युतः
कुञ्जराश्वनरान्संख्ये पातयन्तः पतत्रिभिः
तालमात्राणि चापानि विकर्षन्तो महारथाः
असिचर्माणि चापानि शिरांसि कवचानि च
विप्रकीर्यन्त शूराणां संप्रहारे महात्मनाम्
उत्थितान्यगणेयानि कबन्धानि समन्ततः
अदृश्यन्त महाराज तस्मिन्परमसंकुले
गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास्तथा
बहवः पिशिताशाश्च तत्रादृश्यन्त मारिष
भक्षयन्तः स्म मांसानि पिबन्तश्चापि शोणितम्
विलुम्पन्तः स्म केशांश्च मज्जाश्च बहुधा नृप
आकर्षन्तः शरीराणि शरीरावयवांस्तथा
नराश्वगजसंघानां शिरांसि च ततस्ततः
कृतास्त्रा रणदीक्षाभिर्दीक्षिताः शरधारिणः
रणे जयं प्रार्थयन्तो भृशं युयुधिरे तदा
असिमार्गान्बहुविधान्विचेरुस्तावका रणे
ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः
गदाभिः परिघैश्चान्ये व्यायुधाश्च भुजैरपि
अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः
रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः
मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः
क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः
उच्चुक्रुशुस्तथान्योन्यं जघ्नुरन्योन्यमाहवे
वर्तमाने तथा युद्धे निर्मर्यादे विशां पते
धृष्टद्युम्नो हयानश्वैर्द्रोणस्य व्यत्यमिश्रयत्
ते हया साध्वशोभन्त विमिश्रा वातरंहसः
पारावतसवर्णाश्च रक्तशोणाश्च संयुगे
हयाः शुशुभिरे राजन्मेघा इव सविद्युतः
धृष्टद्युम्नश्च संप्रेक्ष्य द्रोणमभ्याशमागतम्
असिचर्माददे वीरो धनुरुत्सृज्य भारत
चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा
ईषया समतिक्रम्य द्रोणस्य रथमाविशत्
अतिष्ठद्युगमध्ये स युगसंनहनेषु च
जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन्
खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः
न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत्
यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः
तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत्
द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः
हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली
ध्वजं छत्रं च भल्लाभ्यां तथोभौ पार्ष्णिसारथी
अथास्मै त्वरितो बाणमपरं जीवितान्तकम्
आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा