Mahabharata

Drona Parva, Adhyaya 71

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 71, Verse 1

राजन्संग्राममाश्चर्यं शृणु कीर्तयतो मम

कुरूणां पाण्डवानां च यथा युद्धमवर्तत

Mahabharata

Drona Parva, Adhyaya 71, Verse 2

भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम्

अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः

Mahabharata

Drona Parva, Adhyaya 71, Verse 3

रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः

अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः

Mahabharata

Drona Parva, Adhyaya 71, Verse 4

विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः

आजघ्नतुः सुसंक्रुद्धौ तव पुत्रहितैषिणौ

Mahabharata

Drona Parva, Adhyaya 71, Verse 5

विराटश्च महाराज तावुभौ समरे स्थितौ

पराक्रान्तौ पराक्रम्य योधयामास सानुगौ

Mahabharata

Drona Parva, Adhyaya 71, Verse 6

तेषां युद्धं समभवद्दारुणं शोणितोदकम्

सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने

Mahabharata

Drona Parva, Adhyaya 71, Verse 7

बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः

आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः

Mahabharata

Drona Parva, Adhyaya 71, Verse 8

बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः

आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः

Mahabharata

Drona Parva, Adhyaya 71, Verse 9

तद्युद्धमभवद्घोरं शरशक्तिसमाकुलम्

भीरूणां त्रासजननं शूराणां हर्षवर्धनम्

Mahabharata

Drona Parva, Adhyaya 71, Verse 10

ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा

अभवत्संवृतं सर्वं न प्राज्ञायत किंचन

Mahabharata

Drona Parva, Adhyaya 71, Verse 11

शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम्

ससैन्यो योधयामास गजः प्रतिगजं यथा

Mahabharata

Drona Parva, Adhyaya 71, Verse 12

बाह्लीकराजः संरब्धो द्रौपदेयान्महारथान्

मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे

Mahabharata

Drona Parva, Adhyaya 71, Verse 13

अयोधयंस्ते च भृशं तं शरौघैः समन्ततः

इन्द्रियार्था यथा देहं शश्वद्देहभृतां वर

Mahabharata

Drona Parva, Adhyaya 71, Verse 14

वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव

आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः

Mahabharata

Drona Parva, Adhyaya 71, Verse 15

सोऽतिविद्धो बलवता महेष्वासेन धन्विना

ईषन्मूर्छां जगामाशु सात्यकिः सत्यविक्रमः

Mahabharata

Drona Parva, Adhyaya 71, Verse 16

समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम्

विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः

Mahabharata

Drona Parva, Adhyaya 71, Verse 17

तावन्योन्यं दृढं विद्धावन्योन्यशरविक्षतौ

रेजतुः समरे राजन्पुष्पिताविव किंशुकौ

Mahabharata

Drona Parva, Adhyaya 71, Verse 18

अलम्बुसस्तु संक्रुद्धः कुन्तिभोजशरार्दितः

अशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः

Mahabharata

Drona Parva, Adhyaya 71, Verse 19

कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः

अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव

Mahabharata

Drona Parva, Adhyaya 71, Verse 20

ततस्तौ समरे शूरौ योधयन्तौ परस्परम्

ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा

Mahabharata

Drona Parva, Adhyaya 71, Verse 21

शकुनिं रभसं युद्धे कृतवैरं च भारत

माद्रीपुत्रौ च संरब्धौ शरैरर्दयतां मृधे

Mahabharata

Drona Parva, Adhyaya 71, Verse 22

तन्मूलः स महाराज प्रावर्तत जनक्षयः

त्वया संजनितोऽत्यर्थं कर्णेन च विवर्धितः

Mahabharata

Drona Parva, Adhyaya 71, Verse 23

उद्धुक्षितश्च पुत्रेण तव क्रोधहुताशनः

य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः

Mahabharata

Drona Parva, Adhyaya 71, Verse 24

शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः

नाभ्यजानत कर्तव्यं युधि किंचित्पराक्रमम्

Mahabharata

Drona Parva, Adhyaya 71, Verse 25

विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ

ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम्

Mahabharata

Drona Parva, Adhyaya 71, Verse 26

स वध्यमानो बहुभिः शरैः संनतपर्वभिः

संप्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः

Mahabharata

Drona Parva, Adhyaya 71, Verse 27

घटोत्कचस्तथा शूरं राक्षसं तमलायुधम्

अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम्

Mahabharata

Drona Parva, Adhyaya 71, Verse 28

तयोर्युद्धं महाराज चित्ररूपमिवाभवत्

यादृशं हि पुरा वृत्तं रामरावणयोर्मृधे

Mahabharata

Drona Parva, Adhyaya 71, Verse 29

ततो युधिष्ठिरो राजा मद्रराजानमाहवे

विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः

Mahabharata

Drona Parva, Adhyaya 71, Verse 30

ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप

यथा पूर्वं महद्युद्धं शम्बरामरराजयोः