Drona Parva, Adhyaya 70, Verse 1
प्रविष्टयोर्महाराज पार्थवार्ष्णेययोस्तदा
दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रविष्टयोर्महाराज पार्थवार्ष्णेययोस्तदा
दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे
जवेनाभ्यद्रवन्द्रोणं महता निस्वनेन च
पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत
तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम्
पाञ्चालानां कुरूणां च व्यूहस्य पुरतोऽद्भुतम्
राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम्
यादृङ्मध्यगते सूर्ये युद्धमासीद्विशां पते
धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः
द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन्
वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम्
पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः
महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये
सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते
समेत्य तु महासेने चक्रतुर्वेगमुत्तमम्
जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके
नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः
गदाविद्युन्महारौद्रः संग्रामजलदो महान्
भारद्वाजानिलोद्धूतः शरधारासहस्रवान्
अभ्यवर्षन्महारौद्रः पाण्डुसेनाग्निमुद्धतम्
समुद्रमिव घर्मान्ते विवान्घोरो महानिलः
व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः
तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन्
बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव
वारयामास तान्द्रोणो जलौघानचलो यथा
पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान्
अथापरेऽपि राजानः परावृत्य समन्ततः
महाबला रणे शूराः पाञ्चालानन्ववारयन्
ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह
संजघानासकृद्द्रोणं बिभित्सुररिवाहिनीम्
यथैव शरवर्षाणि द्रोणो वर्षति पार्षते
तथैव शरवर्षाणि धृष्टद्युम्नोऽभ्यवर्षत
सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः
ज्याविद्युच्चापसंह्रादो धृष्टद्युम्नबलाहकः
शरधाराश्मवर्षाणि व्यसृजत्सर्वतोदिशम्
निघ्नन्रथवराश्वौघांश्छादयामास वाहिनीम्
यं यमार्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम्
ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः
तथा तु यतमानस्य द्रोणस्य युधि भारत
धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत
भोजमेके न्यवर्तन्त जलसंधमथापरे
पाण्डवैर्हन्यमानाश्च द्रोणमेवापरेऽव्रजन्
सैन्यान्यघटयद्यानि द्रोणस्तु रथिनां वरः
व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः
धार्तराष्ट्रास्त्रिधाभूता वध्यन्ते पाण्डुसृञ्जयैः
अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव
कालः संग्रसते योधान्धृष्टद्युम्नेन मोहितान्
संग्रामे तुमुले तस्मिन्निति संमेनिरे जनाः
कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः
द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी
अर्करश्मिप्रभिन्नेषु शस्त्रेषु कवचेषु च
चक्षूंषि प्रतिहन्यन्ते सैन्येन रजसा तथा
त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः
अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः
मृद्नतस्तान्यनीकानि निघ्नतश्चापि सायकैः
बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः
रथं नागं हयं चापि पत्तिनश्च विशां पते
एकैकेनेषुणा संख्ये निर्बिभेद महारथः
पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत
दधार यो रणे बाणान्द्रोणचापच्युताञ्शितान्