Drona Parva, Adhyaya 69, Verse 1
ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया
द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम्
Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया
द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम्
काम्बोजस्य च दायादे हते राजन्सुदक्षिणे
श्रुतायुधे च विक्रान्ते निहते सव्यसाचिना
विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः
प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात्
त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत्
गतः स पुरुषव्याघ्रः प्रमथ्येमां महाचमूम्
अत्र बुद्ध्या समीक्षस्व किं नु कार्यमनन्तरम्
अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये
यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः
तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः
असौ धनंजयाग्निर्हि कोपमारुतचोदितः
सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः
अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परंतप
जयद्रथस्य गोप्तारः संशयं परमं गताः
स्थिरा बुद्धिर्नरेन्द्राणामासीद्ब्रह्मविदां वर
नातिक्रमिष्यति द्रोणं जातु जीवन्धनंजयः
सोऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते
सर्वं ह्यद्यातुरं मन्ये नैतदस्ति बलं मम
जानामि त्वां महाभाग पाण्डवानां हिते रतम्
तथा मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन्
यथाशक्ति च ते ब्रह्मन्वर्तये वृत्तिमुत्तमाम्
प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे
अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम
पाण्डवान्सततं प्रीणास्यस्माकं विप्रिये रतान्
अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः
न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम्
नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे
नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान्
मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना
आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे
यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः
नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः
स तथा कुरु शोणाश्व यथा रक्ष्येत सैन्धवः
मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम्
नाभ्यसूयामि ते वाचमश्वत्थाम्नासि मे समः
सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशां पते
सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः
अल्पं च विवरं कृत्वा तूर्णं याति धनंजयः
किं नु पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः
पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः
न चाहं शीघ्रयानेऽद्य समर्थो वयसान्वितः
सेनामुखे च पार्थानामेतद्बलमुपस्थितम्
युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम्
एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज
धनंजयेन चोत्सृष्टो वर्तते प्रमुखे मम
तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम्
तुल्याभिजनकर्माणं शत्रुमेकं सहायवान्
गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः
राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः
वीर स्वयं प्रयाह्याशु यत्र यातो धनंजयः
कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरः
धनंजयो मया शक्य आचार्य प्रतिबाधितुम्
अपि शक्यो रणे जेतुं वज्रहस्तः पुरंदरः
नार्जुनः समरे शक्यो जेतुं परपुरंजयः
येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः
अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः
सुदक्षिणश्च निहतः स च राजा श्रुतायुधः
श्रुतायुश्चाच्युतायुश्च म्लेच्छाश्च शतशो हताः