Mahabharata

Drona Parva, Adhyaya 68

Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 68, Verse 1

हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे

जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव

Mahabharata

Drona Parva, Adhyaya 68, Verse 2

अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः

अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनंजयम्

Mahabharata

Drona Parva, Adhyaya 68, Verse 3

तेषां षष्टिशतानार्यान्प्रामथ्नात्पाण्डवः शरैः

ते स्म भीताः पलायन्त व्याघ्रात्क्षुद्रमृगा इव

Mahabharata

Drona Parva, Adhyaya 68, Verse 4

ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन्

रणे सपत्नान्निघ्नन्तं जिगीषन्तṃ परान्युधि

Mahabharata

Drona Parva, Adhyaya 68, Verse 5

तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः

शिरांसि पातयामास बाहूंश्चैव धनंजयः

Mahabharata

Drona Parva, Adhyaya 68, Verse 6

शिरोभिः पतितैस्तत्र भूमिरासीन्निरन्तरा

अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रवडैर्युधि

Mahabharata

Drona Parva, Adhyaya 68, Verse 7

तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ

श्रुतायुश्चाच्युतायुश्च धनंजयमयुध्यताम्

Mahabharata

Drona Parva, Adhyaya 68, Verse 8

बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ

तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम्

Mahabharata

Drona Parva, Adhyaya 68, Verse 9

त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः

अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ

Mahabharata

Drona Parva, Adhyaya 68, Verse 10

तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम्

पूरयामासतुः क्रुद्धौ तडागं जलदौ यथा

Mahabharata

Drona Parva, Adhyaya 68, Verse 11

श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनंजयम्

आजघान रथश्रेष्ठः पीतेन निशितेन च

Mahabharata

Drona Parva, Adhyaya 68, Verse 12

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः

आजगाम परं मोहं मोहयन्केशवं रणे

Mahabharata

Drona Parva, Adhyaya 68, Verse 13

एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः

शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम्

Mahabharata

Drona Parva, Adhyaya 68, Verse 14

क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः

पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः

Mahabharata

Drona Parva, Adhyaya 68, Verse 15

ततः सर्वस्य सैन्यस्य तावकस्य विशां पते

सिंहनादो महानासीद्धतं मत्वा धनंजयम्

Mahabharata

Drona Parva, Adhyaya 68, Verse 16

कृष्णश्च भृशसंतप्तो दृष्ट्वा पार्थं विचेतसम्

आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनंजयम्

Mahabharata

Drona Parva, Adhyaya 68, Verse 17

ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनंजयम्

वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः

Mahabharata

Drona Parva, Adhyaya 68, Verse 18

सचक्रकूबररथं साश्वध्वजपताकिनम्

अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत्

Mahabharata

Drona Parva, Adhyaya 68, Verse 19

प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत

प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा

Mahabharata

Drona Parva, Adhyaya 68, Verse 20

संछन्नं शरजालेन रथं दृष्ट्वा सकेशवम्

शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ

Mahabharata

Drona Parva, Adhyaya 68, Verse 21

प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः

तस्मादासन्सहस्राणि शराणां नतपर्वणाम्

Mahabharata

Drona Parva, Adhyaya 68, Verse 22

ते जघ्नुस्तौ महेष्वासौ ताभ्यां सृष्टांश्च सायकान्

विचेरुराकाशगताः पार्थबाणविदारिताः

Mahabharata

Drona Parva, Adhyaya 68, Verse 23

प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः

प्रतस्थे तत्र तत्रैव योधयन्वै महारथान्

Mahabharata

Drona Parva, Adhyaya 68, Verse 24

तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ

वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ

Mahabharata

Drona Parva, Adhyaya 68, Verse 25

श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः

लोकविस्मापनमभूत्समुद्रस्येव शोषणम्

Mahabharata

Drona Parva, Adhyaya 68, Verse 26

तयोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान्

अभ्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान्

Mahabharata

Drona Parva, Adhyaya 68, Verse 27

श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम्

अयुतायुश्च संक्रुद्धो दीर्घायुश्चैव भारत

Mahabharata

Drona Parva, Adhyaya 68, Verse 28

पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः

किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ

Mahabharata

Drona Parva, Adhyaya 68, Verse 29

तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः

प्रेषयत्परमक्रुद्धो यमस्य सदनं प्रति

Mahabharata

Drona Parva, Adhyaya 68, Verse 30

लोडयन्तमनीकानि द्विपं पद्मसरो यथा

नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुंगवाः