Mahabharata

Drona Parva, Adhyaya 67

Containing 71 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 67, Verse 1

संनिरुद्धस्तु तैः पार्थो महाबलपराक्रमः

द्रुतं समनुयातश्च द्रोणेन रथिनां वरः

Mahabharata

Drona Parva, Adhyaya 67, Verse 2

किरन्निषुगणांस्तीक्ष्णान्स्वरश्मीनिव भास्करः

तापयामास तत्सैन्यं देहं व्याधिगणो यथा

Mahabharata

Drona Parva, Adhyaya 67, Verse 3

अश्वो विद्धो ध्वजश्छिन्नः सारोहः पतितो गजः

छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः

Mahabharata

Drona Parva, Adhyaya 67, Verse 4

विद्रुतानि च सैन्यानि शरार्तानि समन्ततः

इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किंचन

Mahabharata

Drona Parva, Adhyaya 67, Verse 5

तेषामायच्छतां संख्ये परस्परमजिह्मगैः

अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत्

Mahabharata

Drona Parva, Adhyaya 67, Verse 6

सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसंगरः

अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः

Mahabharata

Drona Parva, Adhyaya 67, Verse 7

तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः

अन्तेवासिनमाचार्यो महेष्वासं समर्दयत्

Mahabharata

Drona Parva, Adhyaya 67, Verse 8

तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः

अभ्यधावदिषूनस्यन्निषुवेगविघातकान्

Mahabharata

Drona Parva, Adhyaya 67, Verse 9

तस्याशु क्षिपतो भल्लान्भल्लैः संनतपर्वभिः

प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन्

Mahabharata

Drona Parva, Adhyaya 67, Verse 10

तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि

यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः

Mahabharata

Drona Parva, Adhyaya 67, Verse 11

क्षरन्निव महामेघो वारिधाराः सहस्रशः

द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः

Mahabharata

Drona Parva, Adhyaya 67, Verse 12

अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष

प्रतिजग्राह तेजस्वी बाणैर्बाणान्विशातयन्

Mahabharata

Drona Parva, Adhyaya 67, Verse 13

द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत्

वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः

Mahabharata

Drona Parva, Adhyaya 67, Verse 14

पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम्

विसृजन्तं शितान्बाणानवारयत तं युधि

Mahabharata

Drona Parva, Adhyaya 67, Verse 15

अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ

आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम्

Mahabharata

Drona Parva, Adhyaya 67, Verse 16

वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान्

किरीटमाली कौन्तेयो भोजानीकं न्यपातयत्

Mahabharata

Drona Parva, Adhyaya 67, Verse 17

सोऽन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम्

अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम्

Mahabharata

Drona Parva, Adhyaya 67, Verse 18

ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम

अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः

Mahabharata

Drona Parva, Adhyaya 67, Verse 19

तमर्जुनः शितेनाजौ राजन्विव्याध पत्रिणा

पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम्

Mahabharata

Drona Parva, Adhyaya 67, Verse 20

भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम्

एकैकं पञ्चविंशत्या सायकानां समार्पयत्

Mahabharata

Drona Parva, Adhyaya 67, Verse 21

तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः

शरैरग्निशिखाकारैः क्रुद्धाशीविषसंनिभैः

Mahabharata

Drona Parva, Adhyaya 67, Verse 22

अथान्यद्धनुरादाय कृतवर्मा महारथः

पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत

Mahabharata

Drona Parva, Adhyaya 67, Verse 23

पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः

तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे

Mahabharata

Drona Parva, Adhyaya 67, Verse 24

विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति

चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत्

Mahabharata

Drona Parva, Adhyaya 67, Verse 25

ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम्

कुरुसांबन्धिकं कृत्वा प्रमथ्यैनं विशातय

Mahabharata

Drona Parva, Adhyaya 67, Verse 26

ततः स कृतवर्माणं मोहयित्वार्जुनः शरैः

अभ्यगाज्जवनैरश्वैः काम्बोजानामनीकिनीम्

Mahabharata

Drona Parva, Adhyaya 67, Verse 27

अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने

विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः

Mahabharata

Drona Parva, Adhyaya 67, Verse 28

चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ

पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः

Mahabharata

Drona Parva, Adhyaya 67, Verse 29

तावविध्यत्ततो भोजः सर्वपारशवैः शरैः

त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम्

Mahabharata

Drona Parva, Adhyaya 67, Verse 30

तावप्येनं विव्यधतुर्दशभिर्दशभिः शरैः

संचिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च