Mahabharata

Drona Parva, Adhyaya 66

Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 66, Verse 1

दुःशासनबलं हत्वा सव्यसाची धनंजयः

सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत्

Mahabharata

Drona Parva, Adhyaya 66, Verse 2

स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम्

कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत्

Mahabharata

Drona Parva, Adhyaya 66, Verse 3

शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे

भवत्प्रसादादिच्छामि प्रवेष्टुं दुर्भिदां चमूम्

Mahabharata

Drona Parva, Adhyaya 66, Verse 4

भवान्पितृसमो मह्यं धर्मराजसमोऽपि च

तथा कृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते

Mahabharata

Drona Parva, Adhyaya 66, Verse 5

अश्वत्थामा यथा तात रक्षणीयस्तवानघ

तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम

Mahabharata

Drona Parva, Adhyaya 66, Verse 6

तव प्रसादादिच्छामि सिन्धुराजानमाहवे

निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे विभो

Mahabharata

Drona Parva, Adhyaya 66, Verse 7

एवमुक्तस्तदाचार्यः प्रत्युवाच स्मयन्निव

मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः

Mahabharata

Drona Parva, Adhyaya 66, Verse 8

एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत्

सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम्

Mahabharata

Drona Parva, Adhyaya 66, Verse 9

ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः

द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्महत्तरैः

Mahabharata

Drona Parva, Adhyaya 66, Verse 10

विव्याध च रणे द्रोणमनुमान्य विशां पते

क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः

Mahabharata

Drona Parva, Adhyaya 66, Verse 11

तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ

विषाग्निज्वलनप्रख्यैरिषुभिः कृष्णपाण्डवौ

Mahabharata

Drona Parva, Adhyaya 66, Verse 12

इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम्

तस्य चिन्तयतस्त्वेवं फल्गुनस्य महात्मनः

द्रोणः शरैरसंभ्रान्तो ज्यां चिच्छेदाशु वीर्यवान्

Mahabharata

Drona Parva, Adhyaya 66, Verse 13

विव्याध च हयानस्य ध्वजं सारथिमेव च

अर्जुनं च शरैर्वीरं स्मयमानोऽभ्यवाकिरत्

Mahabharata

Drona Parva, Adhyaya 66, Verse 14

एतस्मिन्नन्तरे पार्थः सज्जं कृत्वा महद्धनुः

विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरम्

मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम्

Mahabharata

Drona Parva, Adhyaya 66, Verse 15

पुनः सप्त शतानन्यान्सहस्रं चानिवर्तिनाम्

चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम्

Mahabharata

Drona Parva, Adhyaya 66, Verse 16

तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना

मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः

Mahabharata

Drona Parva, Adhyaya 66, Verse 17

विद्रुताश्च रणे पेतुः संछिन्नायुधजीविताः

रथिनो रथमुख्येभ्यः सहयाः शरपीडिताः

Mahabharata

Drona Parva, Adhyaya 66, Verse 18

चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः

तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम्

Mahabharata

Drona Parva, Adhyaya 66, Verse 19

पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः

हंसा हिमवतः पृष्ठे वारिविप्रहता इव

Mahabharata

Drona Parva, Adhyaya 66, Verse 20

रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः

युगान्तादित्यरश्म्याभैः पाण्डवास्तशरैर्हताः

Mahabharata

Drona Parva, Adhyaya 66, Verse 21

तं पाण्डवादित्यशरांशुजालं; कुरुप्रवीरान्युधि निष्टपन्तम्

स द्रोणमेघः शरवर्षवेगैः; प्राच्छादयन्मेघ इवार्करश्मीन्

Mahabharata

Drona Parva, Adhyaya 66, Verse 22

अथात्यर्थविसृष्टेन द्विषतामसुभोजिना

आजघ्ने वक्षसि द्रोणो नाराचेन धनंजयम्

Mahabharata

Drona Parva, Adhyaya 66, Verse 23

स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः

धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः

Mahabharata

Drona Parva, Adhyaya 66, Verse 24

द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत्

अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः

Mahabharata

Drona Parva, Adhyaya 66, Verse 25

विशेषयिष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी

अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः

Mahabharata

Drona Parva, Adhyaya 66, Verse 26

प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान्

मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम्

Mahabharata

Drona Parva, Adhyaya 66, Verse 27

तेऽभ्ययुः समरे राजन्वासुदेवधनंजयौ

द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः

Mahabharata

Drona Parva, Adhyaya 66, Verse 28

तद्दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस्तदा

वासुदेवो महाबुद्धिः कार्यवत्तामचिन्तयत्

Mahabharata

Drona Parva, Adhyaya 66, Verse 29

ततोऽब्रवीद्वासुदेवो धनंजयमिदं वचः

पार्थ पार्थ महाबाहो न नः कालात्ययो भवेत्

Mahabharata

Drona Parva, Adhyaya 66, Verse 30

द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम्

पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशव