Mahabharata

Drona Parva, Adhyaya 65

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 65, Verse 1

तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना

के नु तत्र रणे वीराः प्रत्युदीयुर्धनंजयम्

Mahabharata

Drona Parva, Adhyaya 65, Verse 2

आहोस्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः

द्रोणमाश्रित्य तिष्ठन्तः प्राकारमकुतोभयाः

Mahabharata

Drona Parva, Adhyaya 65, Verse 3

तथार्जुनेन संभग्ने तस्मिंस्तव बले तदा

हतवीरे हतोत्साहे पलायनकृतक्षणे

Mahabharata

Drona Parva, Adhyaya 65, Verse 4

पाकशासनिनाभीक्ष्णं वध्यमाने शरोत्तमैः

न तत्र कश्चित्संग्रामे शशाकार्जुनमीक्षितुम्

Mahabharata

Drona Parva, Adhyaya 65, Verse 5

ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम्

दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्ययात्

Mahabharata

Drona Parva, Adhyaya 65, Verse 6

स काञ्चनविचित्रेण कवचेन समावृतः

जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः

Mahabharata

Drona Parva, Adhyaya 65, Verse 7

नागानीकेन महता ग्रसन्निव महीमिमाम्

दुःशासनो महाराज सव्यसाचिनमावृणोत्

Mahabharata

Drona Parva, Adhyaya 65, Verse 8

ह्रादेन गजघण्टानां शङ्खानां निनदेन च

ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम्

Mahabharata

Drona Parva, Adhyaya 65, Verse 9

भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम्

स मुहूर्तं प्रतिभयो दारुणः समपद्यत

Mahabharata

Drona Parva, Adhyaya 65, Verse 10

तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान्

व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान्

Mahabharata

Drona Parva, Adhyaya 65, Verse 11

सिंहनादेन महता नरसिंहो धनंजयः

गजानीकममित्राणामभितो व्यधमच्छरैः

Mahabharata

Drona Parva, Adhyaya 65, Verse 12

महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम्

किरीटी तद्गजानीकं प्राविशन्मकरो यथा

Mahabharata

Drona Parva, Adhyaya 65, Verse 13

काष्ठातीत इवादित्यः प्रतपन्युगसंक्षये

ददृशे दिक्षु सर्वासु पार्थः परपुरंजयः

Mahabharata

Drona Parva, Adhyaya 65, Verse 14

खुरशब्देन चाश्वानां नेमिघोषेण तेन च

तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च

देवदत्तस्य घोषेण गाण्डीवनिनदेन च

Mahabharata

Drona Parva, Adhyaya 65, Verse 15

मन्दवेगतरा नागा बभूवुस्ते विचेतसः

शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना

Mahabharata

Drona Parva, Adhyaya 65, Verse 16

ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः

अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः

Mahabharata

Drona Parva, Adhyaya 65, Verse 17

आरावं परमं कृत्वा वध्यमानाः किरीटिना

निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः

Mahabharata

Drona Parva, Adhyaya 65, Verse 18

अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च

शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः

Mahabharata

Drona Parva, Adhyaya 65, Verse 19

गजस्कन्धगतानां च पुरुषाणां किरीटिना

आच्छिद्यन्तोत्तमाङ्गानि भल्लैः संनतपर्वभिः

Mahabharata

Drona Parva, Adhyaya 65, Verse 20

सकुण्डलानां पततां शिरसां धरणीतले

पद्मानामिव संघातैः पार्थश्चक्रे निवेदनम्

Mahabharata

Drona Parva, Adhyaya 65, Verse 21

यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः

भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे

Mahabharata

Drona Parva, Adhyaya 65, Verse 22

केचिदेकेन बाणेन सुमुक्तेन पतत्रिणा

द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले

Mahabharata

Drona Parva, Adhyaya 65, Verse 23

मौर्वीं धनुर्ध्वजं चैव युगानीषास्तथैव च

रथिनां कुट्टयामास भल्लैः संनतपर्वभिः

Mahabharata

Drona Parva, Adhyaya 65, Verse 24

न संदधन्न चाप्यस्यन्न विमुञ्चन्न चोद्धरन्

मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते

Mahabharata

Drona Parva, Adhyaya 65, Verse 25

अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः

मुहूर्तान्निपतन्त्यन्ये वारणा वसुधातले

Mahabharata

Drona Parva, Adhyaya 65, Verse 26

उत्थितान्यगणेयानि कबन्धानि समन्ततः

अदृश्यन्त महाराज तस्मिन्परमसंकुले

Mahabharata

Drona Parva, Adhyaya 65, Verse 27

सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे

अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः

Mahabharata

Drona Parva, Adhyaya 65, Verse 28

सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः

चक्रैर्विमथितैरक्षै भग्नैश्च बहुधा युगैः

Mahabharata

Drona Parva, Adhyaya 65, Verse 29

वर्मचापशरैश्चैव व्यवकीर्णैस्ततस्ततः

स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः

Mahabharata

Drona Parva, Adhyaya 65, Verse 30

निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः

अदृश्यत मही तत्र दारुणप्रतिदर्शना