Mahabharata

Drona Parva, Adhyaya 64

Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 64, Verse 1

ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष

ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च

Mahabharata

Drona Parva, Adhyaya 64, Verse 2

अनीकानां च संह्रादे वादित्राणां च निस्वने

प्रध्मापितेषु शङ्खेषु संनादे लोमहर्षणे

Mahabharata

Drona Parva, Adhyaya 64, Verse 3

अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु

रौद्रे मुहूर्ते संप्राप्ते सव्यसाची व्यदृश्यत

Mahabharata

Drona Parva, Adhyaya 64, Verse 4

वडानां वायसानां च पुरस्तात्सव्यसाचिनः

बहुलानि सहस्राणि प्राक्रीडंस्तत्र भारत

Mahabharata

Drona Parva, Adhyaya 64, Verse 5

मृगाश्च घोरसंनादाः शिवाश्चाशिवदर्शनाः

दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा

Mahabharata

Drona Parva, Adhyaya 64, Verse 6

सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः समन्ततः

चचाल च मही कृत्स्ना भये घोरे समुत्थिते

Mahabharata

Drona Parva, Adhyaya 64, Verse 7

विष्वग्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः

ववुरायाति कौन्तेये संग्रामे समुपस्थिते

Mahabharata

Drona Parva, Adhyaya 64, Verse 8

नाकुलिस्तु शतानीको धृष्टद्युम्नश्च पार्षतः

पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा

Mahabharata

Drona Parva, Adhyaya 64, Verse 9

ततो रथसहस्रेण द्विरदानां शतेन च

त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः

Mahabharata

Drona Parva, Adhyaya 64, Verse 10

अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव

अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत्

Mahabharata

Drona Parva, Adhyaya 64, Verse 11

अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम्

अहमावारयिष्यामि वेलेव मकरालयम्

Mahabharata

Drona Parva, Adhyaya 64, Verse 12

अद्य पश्यन्तु संग्रामे धनंजयममर्षणम्

विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि

Mahabharata

Drona Parva, Adhyaya 64, Verse 13

एवं ब्रुवन्महाराज महात्मा स महामतिः

महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः

Mahabharata

Drona Parva, Adhyaya 64, Verse 14

ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः

दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः

Mahabharata

Drona Parva, Adhyaya 64, Verse 15

शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव

युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः

Mahabharata

Drona Parva, Adhyaya 64, Verse 16

क्रोधामर्षबलोद्धूतो निवातकवचान्तकः

जयो जेता स्थितः सत्ये पारयिष्यन्महाव्रतम्

Mahabharata

Drona Parva, Adhyaya 64, Verse 17

आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत्

शुभ्रवर्माम्बरधरः स्वङ्गदी चारुकुण्डली

Mahabharata

Drona Parva, Adhyaya 64, Verse 18

रथप्रवरमास्थाय नरो नारायणानुगः

विधुन्वन्गाण्डिवं संख्ये बभौ सूर्य इवोदितः

Mahabharata

Drona Parva, Adhyaya 64, Verse 19

सोऽग्रानीकस्य महत इषुपाते धनंजयः

व्यवस्थाप्य रथं सज्जं शङ्खं दध्मौ प्रतापवान्

Mahabharata

Drona Parva, Adhyaya 64, Verse 20

अथ कृष्णोऽप्यसंभ्रान्तः पार्थेन सह मारिष

प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा

Mahabharata

Drona Parva, Adhyaya 64, Verse 21

तयोः शङ्खप्रणादेन तव सैन्ये विशां पते

आसन्संहृष्टरोमाणः कम्पिता गतचेतसः

Mahabharata

Drona Parva, Adhyaya 64, Verse 22

यथा त्रसन्ति भूतानि सर्वाण्यशनिनिस्वनात्

तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः

Mahabharata

Drona Parva, Adhyaya 64, Verse 23

प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः

एवं सवाहनं सर्वमाविग्नमभवद्बलम्

Mahabharata

Drona Parva, Adhyaya 64, Verse 24

व्यषीदन्त नरा राजञ्शङ्खशब्देन मारिष

विसंज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः

Mahabharata

Drona Parva, Adhyaya 64, Verse 25

ततः कपिर्महानादं सह भूतैर्ध्वजालयैः

अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान्

Mahabharata

Drona Parva, Adhyaya 64, Verse 26

ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह

पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः

Mahabharata

Drona Parva, Adhyaya 64, Verse 27

नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः

सिंहनादैः सवादित्रैः समाहूतैर्महारथैः

Mahabharata

Drona Parva, Adhyaya 64, Verse 28

तस्मिन्सुतुमुले शब्दे भीरूणां भयवर्धने

अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः

Mahabharata

Drona Parva, Adhyaya 64, Verse 29

चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः

एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम्

Mahabharata

Drona Parva, Adhyaya 64, Verse 30

एवमुक्तो महाबाहुः केशवः सव्यसाचिना

अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः