Mahabharata

Drona Parva, Adhyaya 63

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 63, Verse 1

तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः

स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः

Mahabharata

Drona Parva, Adhyaya 63, Verse 2

शूराणां गर्जतां राजन्संक्रुद्धानाममर्षिणाम्

श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम्

Mahabharata

Drona Parva, Adhyaya 63, Verse 3

विस्फार्य च धनूंष्याजौ ज्याः करैः परिमृज्य च

विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनंजयः

Mahabharata

Drona Parva, Adhyaya 63, Verse 4

विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान्

पीतानाकाशसंकाशानसीन्केचिच्च चिक्षिपुः

Mahabharata

Drona Parva, Adhyaya 63, Verse 5

चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षया

संग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः

Mahabharata

Drona Parva, Adhyaya 63, Verse 6

सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः

समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम्

Mahabharata

Drona Parva, Adhyaya 63, Verse 7

अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः

चक्रुः संबाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः

Mahabharata

Drona Parva, Adhyaya 63, Verse 8

नानाप्रहरणैश्चान्ये विचित्रस्रगलंकृताः

संग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः

Mahabharata

Drona Parva, Adhyaya 63, Verse 9

क्वार्जुनः क्व च गोविन्दः क्व च मानी वृकोदरः

क्व च ते सुहृदस्तेषामाह्वयन्तो रणे तदा

Mahabharata

Drona Parva, Adhyaya 63, Verse 10

ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम्

इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः

Mahabharata

Drona Parva, Adhyaya 63, Verse 11

तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु

भारद्वाजो महाराज जयद्रथमथाब्रवीत्

Mahabharata

Drona Parva, Adhyaya 63, Verse 12

त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः

अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा

Mahabharata

Drona Parva, Adhyaya 63, Verse 13

शतं चाश्वसहस्राणां रथानामयुतानि षट्

द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश

Mahabharata

Drona Parva, Adhyaya 63, Verse 14

पदातीनां सहस्राणि दंशितान्येकविंशतिः

गव्यूतिषु त्रिमात्रेषु मामनासाद्य तिष्ठत

Mahabharata

Drona Parva, Adhyaya 63, Verse 15

तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः

किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव

Mahabharata

Drona Parva, Adhyaya 63, Verse 16

एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः

संप्रायात्सह गान्धारैर्वृतस्तैश्च महारथैः

वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः

Mahabharata

Drona Parva, Adhyaya 63, Verse 17

चामरापीडिनः सर्वे जाम्बूनदविभूषिताः

जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः

ते चैव सप्तसाहस्रा द्विसाहस्राश्च सैन्धवाः

Mahabharata

Drona Parva, Adhyaya 63, Verse 18

मत्तानामधिरूढानां हस्त्यारोहैर्विशारदैः

नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम्

Mahabharata

Drona Parva, Adhyaya 63, Verse 19

अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव

अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः

Mahabharata

Drona Parva, Adhyaya 63, Verse 20

ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ

सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ

Mahabharata

Drona Parva, Adhyaya 63, Verse 21

दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्च विस्तृतः

व्यूहः स चक्रशकटो भारद्वाजेन निर्मितः

Mahabharata

Drona Parva, Adhyaya 63, Verse 22

नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः

रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम्

Mahabharata

Drona Parva, Adhyaya 63, Verse 23

पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः

सूची पद्मस्य मध्यस्थो गूढो व्यूहः पुनः कृतः

Mahabharata

Drona Parva, Adhyaya 63, Verse 24

एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः

सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः

Mahabharata

Drona Parva, Adhyaya 63, Verse 25

अनन्तरं च काम्बोजो जलसंधश्च मारिष

दुर्योधनः सहामात्यस्तदनन्तरमेव च

Mahabharata

Drona Parva, Adhyaya 63, Verse 26

ततः शतसहस्राणि योधानामनिवर्तिनाम्

व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणः

Mahabharata

Drona Parva, Adhyaya 63, Verse 27

तेषां च पृष्ठतो राज बलेन महता वृतः

जयद्रथस्ततो राजन्सूचिपाशे व्यवस्थितः

Mahabharata

Drona Parva, Adhyaya 63, Verse 28

शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः

अनु तस्याभवद्भोजो जुगोपैनं ततः स्वयम्

Mahabharata

Drona Parva, Adhyaya 63, Verse 29

श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः

धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः

Mahabharata

Drona Parva, Adhyaya 63, Verse 30

पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम्

द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन्