Mahabharata

Drona Parva, Adhyaya 62

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 62, Verse 1

हन्त ते संप्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान्

शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान्

Mahabharata

Drona Parva, Adhyaya 62, Verse 2

गतोदके सेतुबन्धो यादृक्तादृगयं तव

विलापो निष्फलो राजन्मा शुचो भरतर्षभ

Mahabharata

Drona Parva, Adhyaya 62, Verse 3

अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः

मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम्

Mahabharata

Drona Parva, Adhyaya 62, Verse 4

यदि हि त्वं पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम्

निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत्

Mahabharata

Drona Parva, Adhyaya 62, Verse 5

युद्धकाले पुनः प्राप्ते तदैव भवता यदि

निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत्

Mahabharata

Drona Parva, Adhyaya 62, Verse 6

दुर्योधनं चाविधेयं बध्नीतेति पुरा यदि

कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमाव्रजेत्

Mahabharata

Drona Parva, Adhyaya 62, Verse 7

तत्ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः

पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि महाजनाः

Mahabharata

Drona Parva, Adhyaya 62, Verse 8

स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे

वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत्

Mahabharata

Drona Parva, Adhyaya 62, Verse 9

त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम्

दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम्

Mahabharata

Drona Parva, Adhyaya 62, Verse 10

तत्ते विलपितं सर्वं मया राजन्निशामितम्

अर्थे निविशमानस्य विषमिश्रं यथा मधु

Mahabharata

Drona Parva, Adhyaya 62, Verse 11

न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा

न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप

Mahabharata

Drona Parva, Adhyaya 62, Verse 12

व्यजानत यदा तु त्वां राजधर्मादधश्च्युतम्

तदा प्रभृति कृष्णस्त्वां न तथा बहु मन्यते

Mahabharata

Drona Parva, Adhyaya 62, Verse 13

परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे

तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम्

Mahabharata

Drona Parva, Adhyaya 62, Verse 14

पितृपैतामहं राज्यमपवृत्तं तदानघ

अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः

Mahabharata

Drona Parva, Adhyaya 62, Verse 15

पाण्डुनावर्जितं राज्यं कौरवाणां यशस्तथा

ततश्चाभ्यधिकं भूयः पाण्डवैर्धर्मचारिभिः

Mahabharata

Drona Parva, Adhyaya 62, Verse 16

तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम्

यत्पित्र्याद्भ्रंशिता राज्यात्त्वयेहामिषगृद्धिना

Mahabharata

Drona Parva, Adhyaya 62, Verse 17

यत्पुनर्युद्धकाले त्वं पुत्रान्गर्हयसे नृप

बहुधा व्याहरन्दोषान्न तदद्योपपद्यते

Mahabharata

Drona Parva, Adhyaya 62, Verse 18

न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे

चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः

Mahabharata

Drona Parva, Adhyaya 62, Verse 19

यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ

रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवैः

Mahabharata

Drona Parva, Adhyaya 62, Verse 20

येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः

येषां च सात्यकिर्गोप्ता येषां गोप्ता वृकोदरः

Mahabharata

Drona Parva, Adhyaya 62, Verse 21

को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः

अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः

Mahabharata

Drona Parva, Adhyaya 62, Verse 22

यावत्तु शक्यते कर्तुमनुरक्तैर्जनाधिपैः

क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः

Mahabharata

Drona Parva, Adhyaya 62, Verse 23

यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम्

कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः