Mahabharata

Drona Parva, Adhyaya 61

Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 61, Verse 1

श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः

अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः

Mahabharata

Drona Parva, Adhyaya 61, Verse 2

जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः

कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः

Mahabharata

Drona Parva, Adhyaya 61, Verse 3

पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम्

आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे

Mahabharata

Drona Parva, Adhyaya 61, Verse 4

कपिराजध्वजं संख्ये विधुन्वानं महद्धनुः

दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वन्त मामकाः

Mahabharata

Drona Parva, Adhyaya 61, Verse 5

किं नु संजय संग्रामे वृत्तं दुर्योधनं प्रति

परिदेवो महानत्र श्रुतो मे नाभिनन्दनम्

Mahabharata

Drona Parva, Adhyaya 61, Verse 6

बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः

न श्रूयन्तेऽद्य ते सर्वे सैन्धवस्य निवेशने

Mahabharata

Drona Parva, Adhyaya 61, Verse 7

स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम

सूतमागधसंघानां नर्तकानां च सर्वशः

Mahabharata

Drona Parva, Adhyaya 61, Verse 8

शब्देन नादिताभीक्ष्णमभवद्यत्र मे श्रुतिः

दीनानामद्य तं शब्दं न शृणोमि समीरितम्

Mahabharata

Drona Parva, Adhyaya 61, Verse 9

निवेशने सत्यधृतेः सोमदत्तस्य संजय

आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम्

Mahabharata

Drona Parva, Adhyaya 61, Verse 10

तदद्य हीनपुण्योऽहमार्तस्वरनिनादितम्

निवेशनं हतोत्साहं पुत्राणां मम लक्षये

Mahabharata

Drona Parva, Adhyaya 61, Verse 11

विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः

अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः

Mahabharata

Drona Parva, Adhyaya 61, Verse 12

ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते

द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम्

Mahabharata

Drona Parva, Adhyaya 61, Verse 13

वितण्डालापसंलापैर्हुतयाचितवन्दितैः

गीतैश्च विविधैरिष्टै रमते यो दिवानिशम्

Mahabharata

Drona Parva, Adhyaya 61, Verse 14

उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः

सूत तस्य गृहे शब्दो नाद्य द्रौणेर्यथा पुरा

Mahabharata

Drona Parva, Adhyaya 61, Verse 15

द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये

अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः

Mahabharata

Drona Parva, Adhyaya 61, Verse 16

विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः

श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु

Mahabharata

Drona Parva, Adhyaya 61, Verse 17

नित्यप्रमुदितानां च तालगीतस्वनो महान्

नृत्यतां श्रूयते तात गणानां सोऽद्य न ध्वनिः

Mahabharata

Drona Parva, Adhyaya 61, Verse 18

सप्ततन्तून्वितन्वाना यमुपासन्ति याजकाः

सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः

Mahabharata

Drona Parva, Adhyaya 61, Verse 19

ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः

द्रोणस्यासीदविरतो गृहे तन्न शृणोम्यहम्

Mahabharata

Drona Parva, Adhyaya 61, Verse 20

नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः

वादित्रनादितानां च सोऽद्य न श्रूयते महान्

Mahabharata

Drona Parva, Adhyaya 61, Verse 21

यदा प्रभृत्युपप्लव्याच्छान्तिमिच्छञ्जनार्दनः

आगतः सर्वभूतानामनुकम्पार्थमच्युतः

Mahabharata

Drona Parva, Adhyaya 61, Verse 22

ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा

वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः

Mahabharata

Drona Parva, Adhyaya 61, Verse 23

कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः

शमे चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम्

हितार्थमभिजल्पन्तं न तथास्त्यपराजयः

Mahabharata

Drona Parva, Adhyaya 61, Verse 24

प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम्

अनुनेयानि जल्पन्तमनयान्नान्वपद्यत

Mahabharata

Drona Parva, Adhyaya 61, Verse 25

ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः

अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः

Mahabharata

Drona Parva, Adhyaya 61, Verse 26

न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति

सैन्धवो नेच्छते द्यूतं भीष्मो न द्यूतमिच्छति

Mahabharata

Drona Parva, Adhyaya 61, Verse 27

शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा

अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति संजय

Mahabharata

Drona Parva, Adhyaya 61, Verse 28

एतेषां मतमाज्ञाय यदि वर्तेत पुत्रकः

सज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः

Mahabharata

Drona Parva, Adhyaya 61, Verse 29

श्लक्ष्णा मधुरसंभाषा ज्ञातिमध्ये प्रियंवदाः

कुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः

Mahabharata

Drona Parva, Adhyaya 61, Verse 30

धर्मापेक्षो नरो नित्यं सर्वत्र लभते सुखम्

प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते