Drona Parva, Adhyaya 60, Verse 1
तथा संभाषतां तेषां प्रादुरासीद्धनंजयः
दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम्
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा संभाषतां तेषां प्रादुरासीद्धनंजयः
दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम्
तं प्रविष्टं शुभां कक्ष्यामभिवाद्याग्रतः स्थितम्
समुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः
मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना
आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत
व्यक्तमर्जुन संग्रामे ध्रुवस्ते विजयो महान्
यादृग्रूपा हि ते छाया प्रसन्नश्च जनार्दनः
तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम्
दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम्
ततस्तत्कथयामास यथादृष्टं धनंजयः
आश्वासनार्थं सुहृदां त्र्यम्बकेन समागमम्
ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः
नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन्
अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना
त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः
अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः
हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात्
रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ
जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम्
तत्र गत्वा हृषीकेशः कल्पयामास सूतवत्
रथं रथवरस्याजौ वानरर्षभलक्षणम्
स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः
बभौ रथवरः कॢप्तः शिशुर्दिवसकृद्यथा
ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः
कृताह्निकाय पार्थाय न्यवेदयत तं रथम्
तं तु लोके वरः पुंसां किरीटी हेमवर्मभृत्
बाणबाणासनी वाहं प्रदक्षिणमवर्तत
ततो विद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः
स्तूयमानो जयाशीभिरारुरोह महारथम्
जैत्रैः सांग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम्
अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा
स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः
विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः
अन्वारुरोहतुः पार्थं युयुधानजनार्दनौ
शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ
अथ जग्राह गोविन्दो रश्मीन्रश्मिवतां वरः
मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः
स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः
सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी
सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा
सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये
ततो वादित्रनिर्घोषैर्मङ्गल्यैश्च स्तवैः शुभैः
प्रयान्तमर्जुनं सूता मागधाश्चैव तुष्टुवुः
सजयाशीः सपुण्याहः सूतमागधनिस्वनः
युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत्
तमनुप्रयतो वायुः पुण्यगन्धवहः शुचिः
ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन्
प्रादुरासन्निमित्तानि विजयाय बहूनि च
पाण्डवानां त्वदीयानां विपरीतानि मारिष
दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम्
युयुधानं महेष्वासमिदं वचनमब्रवीत्
युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः
यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुंगव
सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः
यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते
यथा परमकं कृत्यं सैन्धवस्य वधे मम
तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणे
स त्वमद्य महाबाहो राजानं परिपालय
यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा