Mahabharata

Drona Parva, Adhyaya 59

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 59, Verse 1

सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन

कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत

Mahabharata

Drona Parva, Adhyaya 59, Verse 2

वासुदेवोऽपि तद्युक्तं पर्यपृच्छद्युधिष्ठिरम्

ततः क्षत्ता प्रकृतयो न्यवेदयदुपस्थिताः

Mahabharata

Drona Parva, Adhyaya 59, Verse 3

अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम्

विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम्

Mahabharata

Drona Parva, Adhyaya 59, Verse 4

शिखण्डिनं यमौ चैव चेकितानं च केकयान्

युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम्

Mahabharata

Drona Parva, Adhyaya 59, Verse 5

एते चान्ये च बहवः क्षत्रियाः क्षत्रियर्षभम्

उपतस्थुर्महात्मानं विविशुश्चासनेषु ते

Mahabharata

Drona Parva, Adhyaya 59, Verse 6

एकस्मिन्नासने वीरावुपविष्टौ महाबलौ

कृष्णश्च युयुधानश्च महात्मानौ महाद्युती

Mahabharata

Drona Parva, Adhyaya 59, Verse 7

ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम्

अब्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः

Mahabharata

Drona Parva, Adhyaya 59, Verse 8

एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः

प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च

Mahabharata

Drona Parva, Adhyaya 59, Verse 9

त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम्

क्लेशांश्च विविधान्कृष्ण सर्वांस्तानपि वेत्थ नः

Mahabharata

Drona Parva, Adhyaya 59, Verse 10

त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल

सुखमायत्तमत्यर्थं यात्रा च मधुसूदन

Mahabharata

Drona Parva, Adhyaya 59, Verse 11

स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम

अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता

Mahabharata

Drona Parva, Adhyaya 59, Verse 12

स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात्

पारं तितीर्षतामद्य प्लवो नो भव माधव

Mahabharata

Drona Parva, Adhyaya 59, Verse 13

न हि तत्कुरुते संख्ये कार्तवीर्यसमस्त्वपि

रथी यत्कुरुते कृष्ण सारथिर्यत्नमास्थितः

Mahabharata

Drona Parva, Adhyaya 59, Verse 14

सामरेष्वपि लोकेषु सर्वेषु न तथाविधः

शरासनधरः कश्चिद्यथा पार्थो धनंजयः

Mahabharata

Drona Parva, Adhyaya 59, Verse 15

वीर्यवानस्त्रसंपन्नः पराक्रान्तो महाबलः

युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम्

Mahabharata

Drona Parva, Adhyaya 59, Verse 16

स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः

सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति

Mahabharata

Drona Parva, Adhyaya 59, Verse 17

अहं च तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः

धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवोत्थितः

Mahabharata

Drona Parva, Adhyaya 59, Verse 18

अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम्

अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः

Mahabharata

Drona Parva, Adhyaya 59, Verse 19

तस्याद्य गृध्राः श्येनाश्च वडगोमायवस्तथा

भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः

Mahabharata

Drona Parva, Adhyaya 59, Verse 20

यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाप्यसौ

राजधानीं यमस्याद्य हतः प्राप्स्यति संकुले

Mahabharata

Drona Parva, Adhyaya 59, Verse 21

निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति

विशोको विज्वरो राजन्भव भूतिपुरस्कृतः