Mahabharata

Drona Parva, Adhyaya 58

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 58, Verse 1

तयोः संवदतोरेव कृष्णदारुकयोस्तदा

सात्यगाद्रजनी राजन्नथ राजान्वबुध्यत

Mahabharata

Drona Parva, Adhyaya 58, Verse 2

पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः

वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम्

Mahabharata

Drona Parva, Adhyaya 58, Verse 3

नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः

कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः

Mahabharata

Drona Parva, Adhyaya 58, Verse 4

मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः

आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः

Mahabharata

Drona Parva, Adhyaya 58, Verse 5

एवमेतानि सर्वाणि तथान्यान्यपि भारत

वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः

Mahabharata

Drona Parva, Adhyaya 58, Verse 6

स मेघसमनिर्घोषो महाञ्शब्दोऽस्पृशद्दिवम्

पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत्

Mahabharata

Drona Parva, Adhyaya 58, Verse 7

प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे

उत्थायावश्यकार्यार्थं ययौ स्नानगृहं ततः

Mahabharata

Drona Parva, Adhyaya 58, Verse 8

ततः शुक्लाम्बराः स्नातास्तरुणाष्टोत्तरं शतम्

स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे

Mahabharata

Drona Parva, Adhyaya 58, Verse 9

भद्रासने सूपविष्टः परिधायाम्बरं लघु

सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः

Mahabharata

Drona Parva, Adhyaya 58, Verse 10

उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः

आप्लुतः साधिवासेन जलेन च सुगन्धिना

Mahabharata

Drona Parva, Adhyaya 58, Verse 11

हरिणा चन्दनेनाङ्गमनुलिप्य महाभुजः

स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः

Mahabharata

Drona Parva, Adhyaya 58, Verse 12

जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः

ततोऽग्निशरणं दीप्तं प्रविवेश विनीतवत्

Mahabharata

Drona Parva, Adhyaya 58, Verse 13

समिद्धं स पवित्राभिरग्निमाहुतिभिस्तथा

मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः

Mahabharata

Drona Parva, Adhyaya 58, Verse 14

द्वितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः

तत्र वेदविदो विप्रानपश्यद्ब्राह्मणर्षभान्

Mahabharata

Drona Parva, Adhyaya 58, Verse 15

दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च

सहस्रानुचरान्सौरानष्टौ दशशतानि च

Mahabharata

Drona Parva, Adhyaya 58, Verse 16

अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः

तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः

Mahabharata

Drona Parva, Adhyaya 58, Verse 17

प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः

अलंकृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः

Mahabharata

Drona Parva, Adhyaya 58, Verse 18

तथा गाः कपिला दोग्ध्रीः सर्षभाः पाण्डुनन्दनः

हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम्

Mahabharata

Drona Parva, Adhyaya 58, Verse 19

स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान्

माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम्

Mahabharata

Drona Parva, Adhyaya 58, Verse 20

पूर्णान्यक्षतपात्राणि रुचकान्रोचनांस्तथा

स्वलंकृताः शुभाः कन्या दधिसर्पिर्मधूदकम्

Mahabharata

Drona Parva, Adhyaya 58, Verse 21

मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम्

दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यामगात्ततः

Mahabharata

Drona Parva, Adhyaya 58, Verse 22

ततस्तस्य महाबाहोस्तिष्ठतः परिचारकाः

सौवर्णं सर्वतोभद्रं मुक्तावैडूर्यमण्डितम्

Mahabharata

Drona Parva, Adhyaya 58, Verse 23

परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत्

विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम्

Mahabharata

Drona Parva, Adhyaya 58, Verse 24

तत्र तस्योपविष्टस्य भूषणानि महात्मनः

उपजह्रुर्महार्हाणि प्रेष्याः शुभ्राणि सर्वशः

Mahabharata

Drona Parva, Adhyaya 58, Verse 25

युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः

रूपमासीन्महाराज द्विषतां शोकवर्धनम्

Mahabharata

Drona Parva, Adhyaya 58, Verse 26

पाण्डरैश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः

दोधूयमानः शुशुभे विद्युद्भिरिव तोयदः

Mahabharata

Drona Parva, Adhyaya 58, Verse 27

संस्तूयमानः सूतैश्च वन्द्यमानश्च बन्दिभिः

उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः

Mahabharata

Drona Parva, Adhyaya 58, Verse 28

ततो मुहूर्तादासीत्तु बन्दिनां निस्वनो महान्

नेमिघोषश्च रथिनां खुरघोषश्च वाजिनाम्

Mahabharata

Drona Parva, Adhyaya 58, Verse 29

ह्रादेन गजघण्टानां शङ्खानां निनदेन च

नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी

Mahabharata

Drona Parva, Adhyaya 58, Verse 30

ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः

शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम्