Drona Parva, Adhyaya 55, Verse 1
एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः
सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः
सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता
हा पुत्र मम मन्दायाः कथं संयुगमेत्य ह
निधनं प्राप्तवांस्तात पितृतुल्यपराक्रमः
कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम्
मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना
नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम्
सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं निरूदरम्
चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम्
भूतानि त्वा निरीक्षन्ते नूनं चन्द्रमिवोदितम्
शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम्
भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः
योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः
कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे
योऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः
सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्यते
पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभो
पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत्
अतृप्तदर्शना पुत्र दर्शनस्य तवानघ
मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम्
विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च
तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम्
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम्
धिग्वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग्बलम्
धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान्
ये त्वा रणे गतं वीरं न जानन्ति निपातितम्
अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम्
अभिमन्युमपश्यन्ती शोकव्याकुललोचना
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः
कथं त्वा विरथं वीरं द्रक्ष्याम्यन्यैर्निपातितम्
हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे
अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम्
इमां ते तरुणीं भार्यां त्वदाधिभिरभिप्लुताम्
कथं संधारयिष्यामि विवत्सामिव धेनुकाम्
अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक
विहाय फलकाले मां सुगृद्धां तव दर्शने
नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा
यत्र त्वं केशवे नाथे संग्रामेऽनाथवद्धतः
यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम्
चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम्
कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि
सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि
या गतिर्युध्यमानानां शूराणामनिवर्तिनाम्
हत्वारीन्निहतानां च संग्रामे तां गतिं व्रज
गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः
नैवेशिकं चाभिमतं ददतां या गतिः शुभा
ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः
एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक
राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती
चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः
दीनानुकम्पिनां या च सततं संविभागिनाम्
पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक
व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि
अमोघातिथिनां या च तां गतिं व्रज पुत्रक
ऋतुकाले स्वकां पत्नीं गच्छतां या मनस्विनाम्
न चान्यदारसेवीनां तां गतिं व्रज पुत्रक
साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः
नारुंतुदानां क्षमिणां या गतिस्तामवाप्नुहि
मधुमांसनिवृत्तानां मदाद्दम्भात्तथानृतात्
परोपतापत्यक्तानां तां गतिं व्रज पुत्रक