Mahabharata

Drona Parva, Adhyaya 53

Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 53, Verse 1

प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा

वासुदेवो महाबाहुर्धनंजयमभाषत

Mahabharata

Drona Parva, Adhyaya 53, Verse 2

भ्रातॄणां मतमाज्ञाय त्वया वाचा प्रतिश्रुतम्

सैन्धवं श्वोऽस्मि हन्तेति तत्साहसतमं कृतम्

Mahabharata

Drona Parva, Adhyaya 53, Verse 3

असंमन्त्र्य मया सार्धमतिभारोऽयमुद्यतः

कथं नु सर्वलोकस्य नावहास्या भवेमहि

Mahabharata

Drona Parva, Adhyaya 53, Verse 4

धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः

त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः

Mahabharata

Drona Parva, Adhyaya 53, Verse 5

त्वया वै संप्रतिज्ञाते सिन्धुराजवधे तदा

सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः

Mahabharata

Drona Parva, Adhyaya 53, Verse 6

तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः

नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः

Mahabharata

Drona Parva, Adhyaya 53, Verse 7

सुमहाञ्शब्दसंपातः कौरवाणां महाभुज

आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः

Mahabharata

Drona Parva, Adhyaya 53, Verse 8

अभिमन्युवधं श्रुत्वा ध्रुवमार्तो धनंजयः

रात्रौ निर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः

Mahabharata

Drona Parva, Adhyaya 53, Verse 9

तैर्यतद्भिरियं सत्या श्रुता सत्यवतस्तव

प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन

Mahabharata

Drona Parva, Adhyaya 53, Verse 10

ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव

आसन्सुयोधनामात्याः स च राजा जयद्रथः

Mahabharata

Drona Parva, Adhyaya 53, Verse 11

अथोत्थाय सहामात्यैर्दीनः शिबिरमात्मनः

आयात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः

Mahabharata

Drona Parva, Adhyaya 53, Verse 12

स मन्त्रकाले संमन्त्र्य सर्वा नैःश्रेयसीः क्रियाः

सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि

Mahabharata

Drona Parva, Adhyaya 53, Verse 13

मामसौ पुत्रहन्तेति श्वोऽभियाता धनंजयः

प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम

Mahabharata

Drona Parva, Adhyaya 53, Verse 14

तां न देवा न गन्धर्वा नासुरोरगराक्षसाः

उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः

Mahabharata

Drona Parva, Adhyaya 53, Verse 15

ते मां रक्षत संग्रामे मा वो मूर्ध्नि धनंजयः

पदं कृत्वाप्नुयाल्लक्ष्यं तस्मादत्र विधीयताम्

Mahabharata

Drona Parva, Adhyaya 53, Verse 16

अथ रक्षा न मे संख्ये क्रियते कुरुनन्दन

अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति

Mahabharata

Drona Parva, Adhyaya 53, Verse 17

एवमुक्तस्त्ववाक्शीर्षो विमनाः स सुयोधनः

श्रुत्वाभिशप्तवन्तं त्वां ध्यानमेवान्वपद्यत

Mahabharata

Drona Parva, Adhyaya 53, Verse 18

तमार्तमभिसंप्रेक्ष्य राजा किल स सैन्धवः

मृदु चात्महितं चैव सापेक्षमिदमुक्तवान्

Mahabharata

Drona Parva, Adhyaya 53, Verse 19

नाहं पश्यामि भवतां तथावीर्यं धनुर्धरम्

योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे

Mahabharata

Drona Parva, Adhyaya 53, Verse 20

वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः

कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः

Mahabharata

Drona Parva, Adhyaya 53, Verse 21

महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा

पदातिना महातेजा गिरौ हिमवति प्रभुः

Mahabharata

Drona Parva, Adhyaya 53, Verse 22

दानवानां सहस्राणि हिरण्यपुरवासिनाम्

जघानैकरथेनैव देवराजप्रचोदितः

Mahabharata

Drona Parva, Adhyaya 53, Verse 23

समायुक्तो हि कौन्तेयो वासुदेवेन धीमता

सामरानपि लोकांस्त्रीन्निहन्यादिति मे मतिः

Mahabharata

Drona Parva, Adhyaya 53, Verse 24

सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना

द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे

Mahabharata

Drona Parva, Adhyaya 53, Verse 25

स राज्ञा स्वयमाचार्यो भृशमाक्रन्दितोऽर्जुन

संविधानं च विहितं रथाश्च किल सज्जिताः

Mahabharata

Drona Parva, Adhyaya 53, Verse 26

कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः

कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः

Mahabharata

Drona Parva, Adhyaya 53, Verse 27

शकटः पद्मपश्चार्धो व्यूहो द्रोणेन कल्पितः

पद्मकर्णिकमध्यस्थः सूचीपाशे जयद्रथः

स्थास्यते रक्षितो वीरैः सिन्धुराड्युद्धदुर्मदैः

Mahabharata

Drona Parva, Adhyaya 53, Verse 28

धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथोरसि

अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः

एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः

Mahabharata

Drona Parva, Adhyaya 53, Verse 29

तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय

सहिता हि नरव्याघ्रा न शक्या जेतुमञ्जसा

Mahabharata

Drona Parva, Adhyaya 53, Verse 30

भूयश्च चिन्तयिष्यामि नीतिमात्महिताय वै

मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये