Mahabharata

Drona Parva, Adhyaya 52

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 52, Verse 1

श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम्

चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः

Mahabharata

Drona Parva, Adhyaya 52, Verse 2

शोकसंमूढहृदयो दुःखेनाभिहतो भृशम्

मज्जमान इवागाधे विपुले शोकसागरे

Mahabharata

Drona Parva, Adhyaya 52, Verse 3

जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु

स तेषां नरदेवानां सकाशे परिदेवयन्

Mahabharata

Drona Parva, Adhyaya 52, Verse 4

अभिमन्योः पितुर्भीतः सव्रीडो वाक्यमब्रवीत्

योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना

Mahabharata

Drona Parva, Adhyaya 52, Verse 5

स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम्

तत्स्वस्ति वोऽस्तु यास्यामि स्वगृहं जीवितेप्सया

Mahabharata

Drona Parva, Adhyaya 52, Verse 6

अथ वा स्थ प्रतिबलास्त्रातुं मां क्षत्रियर्षभाः

पार्थेन प्रार्थितं वीरास्ते ददन्तु ममाभयम्

Mahabharata

Drona Parva, Adhyaya 52, Verse 7

द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः

दुःशासनादयः शक्तास्त्रातुमप्यन्तकार्दितम्

Mahabharata

Drona Parva, Adhyaya 52, Verse 8

किमङ्ग पुनरेकेन फल्गुनेन जिघांसता

न त्रायेयुर्भवन्तो मां समस्ताः पतयः क्षितेः

Mahabharata

Drona Parva, Adhyaya 52, Verse 9

प्रहर्षं पाण्डवेयानां श्रुत्वा मम महद्भयम्

सीदन्तीव च मेऽङ्गानि मुमूर्षोरिव पार्थिवाः

Mahabharata

Drona Parva, Adhyaya 52, Verse 10

वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना

तथा हि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः

Mahabharata

Drona Parva, Adhyaya 52, Verse 11

न देवा न च गन्धर्वा नासुरोरगराक्षसाः

उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः

Mahabharata

Drona Parva, Adhyaya 52, Verse 12

तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः

अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः

Mahabharata

Drona Parva, Adhyaya 52, Verse 13

एवं विलपमानं तं भयाद्व्याकुलचेतसम्

आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत्

Mahabharata

Drona Parva, Adhyaya 52, Verse 14

न भेतव्यं नरव्याघ्र को हि त्वा पुरुषर्षभ

मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि

Mahabharata

Drona Parva, Adhyaya 52, Verse 15

अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः

भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः

Mahabharata

Drona Parva, Adhyaya 52, Verse 16

पुरुमित्रो जयो भोजः काम्बोजश्च सुदक्षिणः

सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखः सहः

Mahabharata

Drona Parva, Adhyaya 52, Verse 17

दुःशासनः सुबाहुश्च कलिङ्गश्चाप्युदायुधः

विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिः ससौबलः

Mahabharata

Drona Parva, Adhyaya 52, Verse 18

त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युतिः

स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव

Mahabharata

Drona Parva, Adhyaya 52, Verse 19

अक्षौहिण्यो दशैका च मदीयास्तव रक्षणे

यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भयम्

Mahabharata

Drona Parva, Adhyaya 52, Verse 20

एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः

दुर्योधनेन सहितो द्रोणं रात्रावुपागमत्

Mahabharata

Drona Parva, Adhyaya 52, Verse 21

उपसंग्रहणं कृत्वा द्रोणाय स विशां पते

उपोपविश्य प्रणतः पर्यपृच्छदिदं तदा

Mahabharata

Drona Parva, Adhyaya 52, Verse 22

निमित्ते दूरपातित्वे लघुत्वे दृढवेधने

मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च

Mahabharata

Drona Parva, Adhyaya 52, Verse 23

विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः

ममार्जुनस्य च विभो यथातत्त्वं प्रचक्ष्व मे

Mahabharata

Drona Parva, Adhyaya 52, Verse 24

सममाचार्यकं तात तव चैवार्जुनस्य च

योगाद्दुःखोचितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः

Mahabharata

Drona Parva, Adhyaya 52, Verse 25

न तु ते युधि संत्रासः कार्यः पार्थात्कथंचन

अहं हि रक्षिता तात भयात्त्वां नात्र संशयः

Mahabharata

Drona Parva, Adhyaya 52, Verse 26

न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि

व्यूहिष्यामि च तं व्यूहं यं पार्थो न तरिष्यति

Mahabharata

Drona Parva, Adhyaya 52, Verse 27

तस्माद्युध्यस्व मा भैस्त्वं स्वधर्ममनुपालय

पितृपैतामहं मार्गमनुयाहि नराधिप

Mahabharata

Drona Parva, Adhyaya 52, Verse 28

अधीत्य विधिवद्वेदानग्नयः सुहुतास्त्वया

इष्टं च बहुभिर्यज्ञैर्न ते मृत्युभयाद्भयम्

Mahabharata

Drona Parva, Adhyaya 52, Verse 29

दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु

भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान्

Mahabharata

Drona Parva, Adhyaya 52, Verse 30

कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः

अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम्