Drona Parva, Adhyaya 51, Verse 1
त्वयि याते महाबाहो संशप्तकबलं प्रति
प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
त्वयि याते महाबाहो संशप्तकबलं प्रति
प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम
व्यूढानीकं वयं द्रोणं वरयामः स्म सर्वशः
प्रतिव्यूह्य रथानीकं यतमानं तथा रणे
स वार्यमाणो रथिभी रक्षितेन मया तथा
अस्मानपि जघानाशु पीडयन्निशितैः शरैः
ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः
प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु
वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम्
उक्तवन्तः स्म ते तात भिन्ध्यनीकमिति प्रभो
स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान्
असह्यमपि तं भारं वोढुमेवोपचक्रमे
स तवास्त्रोपदेशेन वीर्येण च समन्वितः
प्राविशत्तद्बलं बालः सुपर्ण इव सागरम्
तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे
प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम्
ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः
वरदानेन रुद्रस्य सर्वान्नः समवारयत्
ततो द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः
कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन्
परिवार्य तु तैः सर्वैर्युधि बालो महारथैः
यतमानः परं शक्त्या बहुभिर्विरथीकृतः
ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम्
संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत्
स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम्
राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून्
बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह
ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान्
एतावदेव निर्वृत्तमस्माकं शोकवर्धनम्
स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान्
ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम्
हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि
विषण्णवदनाः सर्वे परिगृह्य धनंजयम्
नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन्परस्परम्
प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्छितः
कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः
पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान्
उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत्
सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम्
न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति
न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम्
भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम्
धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम्
पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम्
रक्षमाणाश्च तं संख्ये ये मां योत्स्यन्ति केचन
अपि द्रोणकृपौ वीरौ छादयिष्यामि ताञ्शरैः
यद्येतदेवं संग्रामे न कुर्यां पुरुषर्षभाः
मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान्
ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम्
गुरुदारगामिनां ये च पिशुनानां च ये तथा
साधूनसूयतां ये च ये चापि परिवादिनाम्
ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम्
भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम्
ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि
पायसं वा यवान्नं वा शाकं कृसरमेव वा
संयावापूपमांसानि ये च लोका वृथाश्नताम्
तानह्नैवाधिगच्छेयं न चेद्धन्यां जयद्रथम्
वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम्
अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून्
स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत्
याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः
तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम्