Mahabharata

Drona Parva, Adhyaya 50

Containing 83 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 50, Verse 1

तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये

आदित्येऽस्तंगते श्रीमान्संध्याकाल उपस्थिते

Mahabharata

Drona Parva, Adhyaya 50, Verse 2

व्यपयातेषु सैन्येषु वासाय भरतर्षभ

हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः

Mahabharata

Drona Parva, Adhyaya 50, Verse 3

प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम्

गच्छन्नेव च गोविन्दं सन्नकण्ठोऽभ्यभाषत

Mahabharata

Drona Parva, Adhyaya 50, Verse 4

किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशव

स्पन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाच्युत

Mahabharata

Drona Parva, Adhyaya 50, Verse 5

अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति

भुवि यद्दिक्षु चाप्युग्रा उत्पातास्त्रासयन्ति माम्

Mahabharata

Drona Parva, Adhyaya 50, Verse 6

बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः

अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम

Mahabharata

Drona Parva, Adhyaya 50, Verse 7

व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति

मा शुचः किंचिदेवान्यत्तत्रानिष्टं भविष्यति

Mahabharata

Drona Parva, Adhyaya 50, Verse 8

ततः संध्यामुपास्यैव वीरौ वीरावसादने

कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ

Mahabharata

Drona Parva, Adhyaya 50, Verse 9

ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम्

वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम्

Mahabharata

Drona Parva, Adhyaya 50, Verse 10

ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा

बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः

Mahabharata

Drona Parva, Adhyaya 50, Verse 11

नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन

मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह

वीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह

Mahabharata

Drona Parva, Adhyaya 50, Verse 12

मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च

स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः

Mahabharata

Drona Parva, Adhyaya 50, Verse 13

योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः

कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम्

Mahabharata

Drona Parva, Adhyaya 50, Verse 14

अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव

न हि शुध्यति मे भावो दृष्ट्वा स्वजनमाकुलम्

Mahabharata

Drona Parva, Adhyaya 50, Verse 15

अपि पाञ्चालराजस्य विराटस्य च मानद

सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत

Mahabharata

Drona Parva, Adhyaya 50, Verse 16

न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह

रणादायान्तमुचितं प्रत्युद्याति हसन्निव

Mahabharata

Drona Parva, Adhyaya 50, Verse 17

एवं संकथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम्

ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः

Mahabharata

Drona Parva, Adhyaya 50, Verse 18

दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः

अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत्

Mahabharata

Drona Parva, Adhyaya 50, Verse 19

मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते

न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ

Mahabharata

Drona Parva, Adhyaya 50, Verse 20

मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः

न च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे

Mahabharata

Drona Parva, Adhyaya 50, Verse 21

न चोपदिष्टस्तस्यासीन्मयानीकविनिर्गमः

कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः

Mahabharata

Drona Parva, Adhyaya 50, Verse 22

भित्त्वानीकं महेष्वासः परेषां बहुशो युधि

कच्चिन्न निहतः शेते सौभद्रः परवीरहा

Mahabharata

Drona Parva, Adhyaya 50, Verse 23

लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु

उपेन्द्रसदृशं ब्रूत कथमायोधने हतः

Mahabharata

Drona Parva, Adhyaya 50, Verse 24

सुकुमारं महेष्वासं वासवस्यात्मजात्मजम्

सदा मम प्रियं ब्रूत कथमायोधने हतः

Mahabharata

Drona Parva, Adhyaya 50, Verse 25

वार्ष्णेयीदयितं शूरं मया सततलालितम्

अम्बायाश्च प्रियं नित्यं कोऽवधीत्कालचोदितः

Mahabharata

Drona Parva, Adhyaya 50, Verse 26

सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः

विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः

Mahabharata

Drona Parva, Adhyaya 50, Verse 27

सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य च

यदि पुत्रं न पश्यामि यास्यामि यमसादनम्

Mahabharata

Drona Parva, Adhyaya 50, Verse 28

मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम्

मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम्

Mahabharata

Drona Parva, Adhyaya 50, Verse 29

स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा

बाल्येऽप्यबालकर्माणं प्रियवाक्यममत्सरम्

Mahabharata

Drona Parva, Adhyaya 50, Verse 30

महोत्साहं महाबाहुं दीर्घराजीवलोचनम्

भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम्