Drona Parva, Adhyaya 49, Verse 1
तस्मिंस्तु निहते वीरे सौभद्रे रथयूथपे
विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्मिंस्तु निहते वीरे सौभद्रे रथयूथपे
विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः
उपोपविष्टा राजानं परिवार्य युधिष्ठिरम्
तदेव दुःखं ध्यायन्तः सौभद्रगतमानसाः
ततो युधिष्ठिरो राजा विललाप सुदुःखितः
अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे
द्रोणानीकमसंबाधं मम प्रियचिकीर्षया
भित्त्वा व्यूहं प्रविष्टोऽसौ गोमध्यमिव केसरी
यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे
प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः
अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः
क्षिप्रं ह्यभिमुखः संख्ये विसंज्ञो विमुखीकृतः
स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम्
प्राप्य दौःशासनिं कार्ष्णिर्यातो वैवस्वतक्षयम्
कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम्
सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम्
किं स्विद्वयमपेतार्थमश्लिष्टमसमञ्जसम्
तावुभौ प्रतिवक्ष्यामो हृषीकेशधनंजयौ
अहमेव सुभद्रायाः केशवार्जुनयोरपि
प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम्
न लुब्धो बुध्यते दोषान्मोहाल्लोभः प्रवर्तते
मधु लिप्सुर्हि नापश्यं प्रपातमिदमीदृशम्
यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च
भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः
कथं हि बालस्तरुणो युद्धानामविशारदः
सदश्व इव संबाधे विषमे क्षेममर्हति
नो चेद्धि वयमप्येनं महीमनुशयीमहि
बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा
अलुब्धो मतिमान्ह्रीमान्क्षमावान्रूपवान्बली
वपुष्मान्मानकृद्वीरः प्रियः सत्यपरायणः
यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः
निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान्
महेन्द्रशत्रवो येन हिरण्यपुरवासिनः
अक्ष्णोर्निमेषमात्रेण पौलोमाः सगणा हताः
परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः
तस्यास्माभिर्न शकितस्त्रातुमद्यात्मजो भयात्
भयं तु सुमहत्प्राप्तं धार्तराष्ट्रं महद्बलम्
पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति
क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयमातुरः
व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितम्
न मे जयः प्रीतिकरो न राज्यं; न चामरत्वं न सुरैः सलोकता
इमं समीक्ष्याप्रतिवीर्यपौरुषं; निपातितं देववरात्मजात्मजम्