Mahabharata

Drona Parva, Adhyaya 47

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 47, Verse 1

स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः

शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम्

Mahabharata

Drona Parva, Adhyaya 47, Verse 2

प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः

स तैराचितसर्वाङ्गो बह्वशोभत भारत

Mahabharata

Drona Parva, Adhyaya 47, Verse 3

कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम्

कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः

Mahabharata

Drona Parva, Adhyaya 47, Verse 4

तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ

बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ

Mahabharata

Drona Parva, Adhyaya 47, Verse 5

अथ कर्णस्य सचिवान्षट्शूरांश्चित्रयोधिनः

साश्वसूतध्वजरथान्सौभद्रो निजघान ह

Mahabharata

Drona Parva, Adhyaya 47, Verse 6

अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः

प्रत्यविध्यदसंभ्रान्तस्तदद्भुतमिवाभवत्

Mahabharata

Drona Parva, Adhyaya 47, Verse 7

मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः

साश्वं ससूतं तरुणमश्वकेतुमपातयत्

Mahabharata

Drona Parva, Adhyaya 47, Verse 8

मार्तिकावतकं भोजं ततः कुञ्जरकेतनम्

क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान्

Mahabharata

Drona Parva, Adhyaya 47, Verse 9

तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान्

सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम्

Mahabharata

Drona Parva, Adhyaya 47, Verse 10

ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः

संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत्

Mahabharata

Drona Parva, Adhyaya 47, Verse 11

पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा

दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे

Mahabharata

Drona Parva, Adhyaya 47, Verse 12

एतावदुक्त्वा वचनं कर्मारपरिमार्जितम्

नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत्

Mahabharata

Drona Parva, Adhyaya 47, Verse 13

तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत्

तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत्

Mahabharata

Drona Parva, Adhyaya 47, Verse 14

तस्यार्जुनिर्ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी

तं विव्याधायसैः षड्भिः सोऽपक्रामद्रथान्तरम्

Mahabharata

Drona Parva, Adhyaya 47, Verse 15

शत्रुंजयं चन्द्रकेतुं मेघवेगं सुवर्चसम्

सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम्

Mahabharata

Drona Parva, Adhyaya 47, Verse 16

तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत्

सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः

Mahabharata

Drona Parva, Adhyaya 47, Verse 17

अथाब्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा

पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः

Mahabharata

Drona Parva, Adhyaya 47, Verse 18

ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत

अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति

Mahabharata

Drona Parva, Adhyaya 47, Verse 19

अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम्

शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत

Mahabharata

Drona Parva, Adhyaya 47, Verse 20

धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते

संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः

Mahabharata

Drona Parva, Adhyaya 47, Verse 21

आरुजन्निव मे प्राणान्मोहयन्नपि सायकैः

प्रहर्षयति मा भूयः सौभद्रः परवीरहा

Mahabharata

Drona Parva, Adhyaya 47, Verse 22

अति मा नन्दयत्येष सौभद्रो विचरन्रणे

अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः

Mahabharata

Drona Parva, Adhyaya 47, Verse 23

अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः

न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः

Mahabharata

Drona Parva, Adhyaya 47, Verse 24

अथ कर्णः पुनर्द्रोणमाहार्जुनिशरार्दितः

स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना

Mahabharata

Drona Parva, Adhyaya 47, Verse 25

तेजस्विनः कुमारस्य शराः परमदारुणाः

क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः

Mahabharata

Drona Parva, Adhyaya 47, Verse 26

तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव

अभेद्यमस्य कवचं युवा चाशुपराक्रमः

Mahabharata

Drona Parva, Adhyaya 47, Verse 27

उपदिष्टा मया अस्य पितुः कवचधारणा

तामेष निखिलां वेत्ति ध्रुवं परपुरंजयः

Mahabharata

Drona Parva, Adhyaya 47, Verse 28

शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः

अभीशवो हयाश्चैव तथोभौ पार्ष्णिसारथी

Mahabharata

Drona Parva, Adhyaya 47, Verse 29

एतत्कुरु महेष्वास राधेय यदि शक्यते

अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु

Mahabharata

Drona Parva, Adhyaya 47, Verse 30

सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः

विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि