Drona Parva, Adhyaya 46, Verse 1
तथा प्रविष्टं तरुणं सौभद्रमपराजितम्
कुलानुरूपं कुर्वाणं संग्रामेष्वपलायिनम्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा प्रविष्टं तरुणं सौभद्रमपराजितम्
कुलानुरूपं कुर्वाणं संग्रामेष्वपलायिनम्
आजानेयैः सुबलिभिर्युक्तमश्वैस्त्रिहायनैः
प्लवमानमिवाकाशे के शूराः समवारयन्
अभिमन्युः प्रविश्यैव तावकान्निशितैः शरैः
अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः
तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन्
दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम्
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत्
सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः
तालमात्राणि चापानि विकर्षन्तो महारथाः
तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान्
व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा
द्रोणं पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम्
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः
रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः
अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः
स कर्णं कर्णिना कर्णे पीतेन निशितेन च
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा
पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्
पुत्राणां तव वीराणां पश्यतामवधीद्बली
तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत्
वरं वरममित्राणामारुजन्तमभीतवत्
स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः
षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः
उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम्
स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः
प्रत्यविध्यन्महातेजा बलवानपकारिणम्
तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत्
अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे
कर्णो द्वाविंशतिं भल्लान्कृतवर्मा चतुर्दश
बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश
तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः
तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः
तं कोसलानामधिपः कर्णिनाताडयद्धृदि
स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ
अथ कोसलराजस्तु विरथः खड्गचर्मधृत्
इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम्
स कोसलानां भर्तारं राजपुत्रं बृहद्बलम्
हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत्
बभञ्ज च सहस्राणि दश राजन्महात्मनाम्
सृजतामशिवा वाचः खड्गकार्मुकधारिणाम्
तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे
विष्टम्भयन्महेष्वासान्योधांस्तव शराम्बुभिः