Mahabharata

Drona Parva, Adhyaya 45

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 45, Verse 1

यथा वदसि मे सूत एकस्य बहुभिः सह

संग्रामं तुमुलं घोरं जयं चैव महात्मनः

Mahabharata

Drona Parva, Adhyaya 45, Verse 2

अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम्

किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः

Mahabharata

Drona Parva, Adhyaya 45, Verse 3

दुर्योधनेऽथ विमुखे राजपुत्रशते हते

सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः

Mahabharata

Drona Parva, Adhyaya 45, Verse 4

संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षिणः

पलायनकृतोत्साहा निरुत्साहा द्विषज्जये

Mahabharata

Drona Parva, Adhyaya 45, Verse 5

हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्संबन्धिबान्धवान्

उत्सृज्योत्सृज्य समियुस्त्वरयन्तो हयद्विपान्

Mahabharata

Drona Parva, Adhyaya 45, Verse 6

तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः

कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः

Mahabharata

Drona Parva, Adhyaya 45, Verse 7

अभिद्रुताः सुसंक्रुद्धाः सौभद्रमपराजितम्

तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः

Mahabharata

Drona Parva, Adhyaya 45, Verse 8

एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः

इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात्

Mahabharata

Drona Parva, Adhyaya 45, Verse 9

तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत

अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः

Mahabharata

Drona Parva, Adhyaya 45, Verse 10

तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः

स च तान्प्रममाथैको विष्वग्वातो यथाम्बुदान्

Mahabharata

Drona Parva, Adhyaya 45, Verse 11

पौत्रं तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम्

पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम्

Mahabharata

Drona Parva, Adhyaya 45, Verse 12

अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम्

आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम्

Mahabharata

Drona Parva, Adhyaya 45, Verse 13

लक्ष्मणेन तु संगम्य सौभद्रः परवीरहा

शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पितः

Mahabharata

Drona Parva, Adhyaya 45, Verse 14

संक्रुद्धो वै महाबाहुर्दण्डाहत इवोरगः

पौत्रस्तव महाराज तव पौत्रमभाषत

Mahabharata

Drona Parva, Adhyaya 45, Verse 15

सुदृष्टः क्रियतां लोको अमुं लोकं गमिष्यसि

पश्यतां बान्धवानां त्वां नयामि यमसादनम्

Mahabharata

Drona Parva, Adhyaya 45, Verse 16

एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा

उद्बबर्ह महाबाहुर्निर्मुक्तोरगसंनिभम्

Mahabharata

Drona Parva, Adhyaya 45, Verse 17

स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम्

सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम्

लक्ष्मणं निहतं दृष्ट्वा हा हेत्युच्चुक्रुशुर्जनाः

Mahabharata

Drona Parva, Adhyaya 45, Verse 18

ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते

हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः

Mahabharata

Drona Parva, Adhyaya 45, Verse 19

ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः

कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन्

Mahabharata

Drona Parva, Adhyaya 45, Verse 20

स तान्विद्ध्वा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः

वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम्

Mahabharata

Drona Parva, Adhyaya 45, Verse 21

आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः

कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान्

तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते

Mahabharata

Drona Parva, Adhyaya 45, Verse 22

ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः

यथा विवान्नित्यगतिर्जलदाञ्शतशोऽम्बरे

Mahabharata

Drona Parva, Adhyaya 45, Verse 23

ततः क्राथः शरव्रातैरार्जुनिं समवाकिरत्

अथेतरे संनिवृत्ताः पुनर्द्रोणमुखा रथाः

परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः

Mahabharata

Drona Parva, Adhyaya 45, Verse 24

तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमथार्दयत्

शरौघेणाप्रमेयेण त्वरमाणो जिघांसया

Mahabharata

Drona Parva, Adhyaya 45, Verse 25

सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः

छत्रं ध्वजं नियन्तारमश्वांश्चास्य न्यपातयत्

Mahabharata

Drona Parva, Adhyaya 45, Verse 26

कुलशीलश्रुतबलैः कीर्त्या चास्त्रबलेन च

युक्ते तस्मिन्हते वीराः प्रायशो विमुखाभवन्