Drona Parva, Adhyaya 43, Verse 1
सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु
सुघोरमभवद्युद्धं त्वदीयानां परैः सह
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु
सुघोरमभवद्युद्धं त्वदीयानां परैः सह
प्रविश्य त्वार्जुनिः सेनां सत्यसंधो दुरासदाम्
व्यक्षोभयत तेजस्वी मकरः सागरं यथा
तं तथा शरवर्षेण क्षोभयन्तमरिंदमम्
यथाप्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः
तेषां तस्य च संमर्दो दारुणः समपद्यत
सृजतां शरवर्षाणि प्रसक्तममितौजसाम्
रथव्रजेन संरुद्धस्तैरमित्रैरथार्जुनिः
वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम्
तस्य विव्याध बलवाञ्शरैरश्वानजिह्मगैः
वातायमानैरथ तैरश्वैरपहृतो रणात्
तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम्
रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः
तं सिंहमिव संक्रुद्धं प्रमथ्नन्तं शरैररीन्
आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम्
सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैरवाकिरत्
अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे
तमयस्मयवर्माणमिषुणा आशुपातिना
विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ
वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुंगवाः
परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः
विस्फारयन्तश्चापानि नानारूपाण्यनेकशः
तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह
तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च
सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः
सखड्गाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः
वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः
अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः
अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः
रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही
निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः
जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत
दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा
रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत
काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च
धनुषश्च शराणां च तदपश्याम केवलम्
तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम्
आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम्