Drona Parva, Adhyaya 42, Verse 1
यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम्
शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम्
शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत्
तमूहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः
विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः
गन्धर्वनगराकारं विधिवत्कल्पितं रथम्
तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान्
श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च
स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे
मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम्
वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम्
स विस्फार्य महच्चापं किरन्निषुगणान्बहून्
तत्खण्डं पूरयामास यद्व्यदारयदार्जुनिः
स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम्
धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः
द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम्
केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः
युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत्
इषुजालेन महता तदद्भुतमिवाभवत्
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम्
चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान्
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्
विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभिस्त्रिभिः
तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिः पुनः
धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत्
सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम्
भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष
स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात्
सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी
ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः
सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम्
संक्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा
तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन्
सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः
पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः
यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः
पाण्डवाश्चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम्
यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः
तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत्