Mahabharata

Drona Parva, Adhyaya 41

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 41, Verse 1

बालमत्यन्तसुखिनमवार्यबलदर्पितम्

युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम्

Mahabharata

Drona Parva, Adhyaya 41, Verse 2

गाहमानमनीकानि सदश्वैस्तं त्रिहायनैः

अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्रथी

Mahabharata

Drona Parva, Adhyaya 41, Verse 3

युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ

धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकयः

धृष्टकेतुश्च संरब्धो मत्स्याश्चान्वपतन्रणे

Mahabharata

Drona Parva, Adhyaya 41, Verse 4

अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः

तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाभवन्

Mahabharata

Drona Parva, Adhyaya 41, Verse 5

ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम्

जामाता तव तेजस्वी विष्टम्भयिषुराद्रवत्

Mahabharata

Drona Parva, Adhyaya 41, Verse 6

सैन्धवस्य महाराज पुत्रो राजा जयद्रथः

स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत्

Mahabharata

Drona Parva, Adhyaya 41, Verse 7

उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन्

वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरान्

Mahabharata

Drona Parva, Adhyaya 41, Verse 8

अतिभारमहं मन्ये सैन्धवे संजयाहितम्

यदेकः पाण्डवान्क्रुद्धान्पुत्रगृद्धीनवारयत्

Mahabharata

Drona Parva, Adhyaya 41, Verse 9

अत्यद्भुतमिदं मन्ये बलं शौर्यं च सैन्धवे

तदस्य ब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः

Mahabharata

Drona Parva, Adhyaya 41, Verse 10

किं दत्तं हुतमिष्टं वा सुतप्तमथ वा तपः

सिन्धुराजेन येनैकः क्रुद्धान्पार्थानवारयत्

Mahabharata

Drona Parva, Adhyaya 41, Verse 11

द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः

मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः

Mahabharata

Drona Parva, Adhyaya 41, Verse 12

इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सः

क्षुत्पिपासातपसहः कृशो धमनिसंततः

देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम्

Mahabharata

Drona Parva, Adhyaya 41, Verse 13

भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम्

स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम्

वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि

Mahabharata

Drona Parva, Adhyaya 41, Verse 14

एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः

उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान्

Mahabharata

Drona Parva, Adhyaya 41, Verse 15

पाण्डवेयानहं संख्ये भीमवीर्यपराक्रमान्

एको रणे धारयेयं समस्तानिति भारत

Mahabharata

Drona Parva, Adhyaya 41, Verse 16

एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत्

ददामि ते वरं सौम्य विना पार्थं धनंजयम्

Mahabharata

Drona Parva, Adhyaya 41, Verse 17

धारयिष्यसि संग्रामे चतुरः पाण्डुनन्दनान्

एवमस्त्विति देवेशमुक्त्वाबुध्यत पार्थिवः

Mahabharata

Drona Parva, Adhyaya 41, Verse 18

स तेन वरदानेन दिव्येनास्त्रबलेन च

एकः संधारयामास पाण्डवानामनीकिनीम्

Mahabharata

Drona Parva, Adhyaya 41, Verse 19

तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत्

परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत्

Mahabharata

Drona Parva, Adhyaya 41, Verse 20

दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमर्पितम्

उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम्