Drona Parva, Adhyaya 40, Verse 1
सोऽभिगर्जन्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः
तयोर्महात्मनोस्तूर्णं रथान्तरमवापतत्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
सोऽभिगर्जन्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः
तयोर्महात्मनोस्तूर्णं रथान्तरमवापतत्
सोऽविध्यद्दशभिर्बाणैरभिमन्युं दुरासदम्
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव
पितृपैतामहं कर्म कुर्वाणमतिमानुषम्
दृष्ट्वार्दितं शरैः कार्ष्णिं त्वदीया हृषिताभवन्
तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा
शिरः प्रच्यावयामास स रथात्प्रापतद्भुवि
कर्णिकारमिवोद्धूतं वातेन मथितं नगात्
भ्रातरं निहतं दृष्ट्वा राजन्कर्णो व्यथां ययौ
विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः
अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे
ततस्तद्विततं जालं हस्त्यश्वरथपत्तिमत्
झषः क्रुद्ध इवाभिन्ददभिमन्युर्महायशाः
कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना
अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्यत
शलभैरिव चाकाशे धाराभिरिव चावृते
अभिमन्योः शरै राजन्न प्राज्ञायत किंचन
तावकानां तु योधानां वध्यतां निशितैः शरैः
अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत
सौभद्रस्तु ततः शङ्खं प्रध्माप्य पुरुषर्षभः
शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ
स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून्
मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत
रथनागाश्वमनुजानर्दयन्निशितैः शरैः
स प्रविश्याकरोद्भूमिं कबन्धगणसंकुलाम्
सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः
स्वानेवाभिमुखान्घ्नन्तः प्राद्रवञ्जीवितार्थिनः
ते घोरा रौद्रकर्माणो विपाठाः पृथवः शिताः
निघ्नन्तो रथनागाश्वाञ्जग्मुराशु वसुंधराम्
सायुधाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे
दृश्यन्ते बाहवश्छिन्ना हेमाभरणभूषिताः
शराश्चापानि खड्गाश्च शरीराणि शिरांसि च
सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः
अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा रथैः
शक्तिचापायुधैश्चापि पतितैश्च महाध्वजैः
निहतैः क्षत्रियैरश्वैर्वारणैश्च विशां पते
अगम्यकल्पा पृथिवी क्षणेनासीत्सुदारुणा
वध्यतां राजपुत्राणां क्रन्दतामितरेतरम्
प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः
स शब्दो भरतश्रेष्ठ दिशः सर्वा व्यनादयत्
सौभद्रश्चाद्रवत्सेनां निघ्नन्नश्वरथद्विपान्
व्यचरत्स दिशः सर्वाः प्रदिशश्चाहितान्रुजन्
तं तदा नानुपश्याम सैन्येन रजसावृतम्
आददानं गजाश्वानां नृणां चायूंषि भारत
क्षणेन भूयोऽपश्याम सूर्यं मध्यंदिने यथा
अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान्
स वासवसमः संख्ये वासवस्यात्मजात्मजः
अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत