Mahabharata

Drona Parva, Adhyaya 39

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 39, Verse 1

शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम्

अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत्

Mahabharata

Drona Parva, Adhyaya 39, Verse 2

दिष्ट्या पश्यामि संग्रामे मानिनं शत्रुमागतम्

निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम्

Mahabharata

Drona Parva, Adhyaya 39, Verse 3

यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः

कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः

जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषता

Mahabharata

Drona Parva, Adhyaya 39, Verse 4

परवित्तापहारस्य क्रोधस्याप्रशमस्य च

लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च

Mahabharata

Drona Parva, Adhyaya 39, Verse 5

पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम्

तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम्

Mahabharata

Drona Parva, Adhyaya 39, Verse 6

सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते

शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः

Mahabharata

Drona Parva, Adhyaya 39, Verse 7

अद्याहमनृणस्तस्य कोपस्य भविता रणे

अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः

Mahabharata

Drona Parva, Adhyaya 39, Verse 8

अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि

न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम्

Mahabharata

Drona Parva, Adhyaya 39, Verse 9

एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम्

संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम्

Mahabharata

Drona Parva, Adhyaya 39, Verse 10

तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम्

अथैनं पञ्चविंशत्या पुनश्चैव समर्पयत्

Mahabharata

Drona Parva, Adhyaya 39, Verse 11

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्

दुःशासनो महाराज कश्मलं चाविशन्महत्

Mahabharata

Drona Parva, Adhyaya 39, Verse 12

सारथिस्त्वरमाणस्तु दुःशासनमचेतसम्

रणमध्यादपोवाह सौभद्रशरपीडितम्

Mahabharata

Drona Parva, Adhyaya 39, Verse 13

पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम्

पाञ्चालाः केकयाश्चैव सिंहनादमथानदन्

Mahabharata

Drona Parva, Adhyaya 39, Verse 14

वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः

प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः

Mahabharata

Drona Parva, Adhyaya 39, Verse 15

पश्यन्तः स्मयमानाश्च सौभद्रस्य विचेष्टितम्

अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम्

Mahabharata

Drona Parva, Adhyaya 39, Verse 16

धर्ममारुतशक्राणामाश्विनोः प्रतिमास्तथा

धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः

Mahabharata

Drona Parva, Adhyaya 39, Verse 17

सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ

केकया धृष्टकेतुश्च मत्स्यपाञ्चालसृंजयाः

Mahabharata

Drona Parva, Adhyaya 39, Verse 18

पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः

अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः

Mahabharata

Drona Parva, Adhyaya 39, Verse 19

ततोऽभवन्महद्युद्धं त्वदीयानां परैः सह

जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम्

Mahabharata

Drona Parva, Adhyaya 39, Verse 20

दुर्योधनो महाराज राधेयमिदमब्रवीत्

पश्य दुःशासनं वीरमभिमन्युवशं गतम्

Mahabharata

Drona Parva, Adhyaya 39, Verse 21

प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे

सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः

Mahabharata

Drona Parva, Adhyaya 39, Verse 22

ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम्

अभ्यवर्षत संक्रुद्धः पुत्रस्य हितकृत्तव

Mahabharata

Drona Parva, Adhyaya 39, Verse 23

तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः

अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे

Mahabharata

Drona Parva, Adhyaya 39, Verse 24

अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः

अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः

Mahabharata

Drona Parva, Adhyaya 39, Verse 25

तं तदा नाशकत्कश्चिद्द्रोणाद्वारयितुं रणे

आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान्

Mahabharata

Drona Parva, Adhyaya 39, Verse 26

ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुर्भृताम्

सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन्

Mahabharata

Drona Parva, Adhyaya 39, Verse 27

सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान्

समरे शत्रुदुर्धर्षमभिमन्युमपीडयत्

Mahabharata

Drona Parva, Adhyaya 39, Verse 28

स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः

समरेऽमरसंकाशः सौभद्रो न व्यषीदत

Mahabharata

Drona Parva, Adhyaya 39, Verse 29

ततः शिलाशितैस्तीक्ष्णैर्भल्लैः संनतपर्वभिः

छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत्

स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत्

Mahabharata

Drona Parva, Adhyaya 39, Verse 30

ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः

सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम्