Drona Parva, Adhyaya 38, Verse 1
द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च संजय
मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत्
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च संजय
मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत्
विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः
विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह
हन्त ते संप्रवक्ष्यामि विमर्दमतिदारुणम्
एकस्य च बहूनां च यथासीत्तुमुलो रणः
अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान्
रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत्
द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम्
दुर्योधनं सौमदत्तिं शकुनिं च महाबलम्
नानानृपान्नृपसुतान्सैन्यानि विविधानि च
अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात्
निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान्
अदर्शयत तेजस्वी दिक्षु सर्वासु भारत
तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः
समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः
अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान्
हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम्
घट्टयन्निव मर्माणि तव पुत्रस्य मारिष
अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम्
एष गच्छति सौभद्रः पार्थानामग्रतो युवा
नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम्
नकुलं सहदेवं च भीमसेनं च पाण्डवम्
बन्धून्संबन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा
नास्य युद्धे समं मन्ये कंचिदन्यं धनुर्धरम्
इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति
द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः
आर्जुनिं प्रति संक्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव
अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं कृपम्
दुःसासनं मद्रराजं तांस्तांश्चान्यान्महारथान्
सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः
अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः
किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः
अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति
पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम्
संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः
आत्मसंभावितो मूढस्तं प्रमथ्नीत माचिरम्
एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः
संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः
दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा
अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः
अहमेनं हनिष्यामि महाराज ब्रवीमि ते
मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम्
ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम्
उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः
श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ
गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः
तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः
एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम्
तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव
शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव
एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव
सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन्
तमभिक्रुद्धमायान्तं तव पुत्रमरिंदमः
अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत्
दुःशासनस्तु संक्रुद्धः प्रभिन्न इव कुञ्जरः
अयोधयत सौभद्रमभिमन्युश्च तं रणे
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम्
चरमाणावयुध्येतां रथशिक्षाविशारदौ
अथ पणवमृदङ्गदुन्दुभीनां; कृकरमहानकभेरिझर्झराणाम्
निनदमतिभृशं नराः प्रचक्रु;र्लवणजलोद्भवसिंहनादमिश्रम्