Drona Parva, Adhyaya 37, Verse 1
तथा प्रमथमानं तं महेष्वासमजिह्मगैः
आर्जुनिं मामकाः सर्वे के त्वेनं समवाकिरन्
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा प्रमथमानं तं महेष्वासमजिह्मगैः
आर्जुनिं मामकाः सर्वे के त्वेनं समवाकिरन्
शृणु राजन्कुमारस्य रणे विक्रीडितं महत्
बिभित्सतो रथानीकं भारद्वाजेन रक्षितम्
मद्रेशं सादितं दृष्ट्वा सौभाद्रेणाशुगै रणे
शल्यादवरजः क्रुद्धः किरन्बाणान्समभ्ययात्
स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम्
उदक्रोशन्महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत्
तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान्
छत्रं ध्वजं नियन्तारं त्रिवेणुं शम्युपस्करम्
चक्रे युगेषां तूणीराननुकर्षं च सायकैः
पताकां चक्रगोप्तारौ सर्वोपकरणानि च
व्यधमल्लाघवात्तच्च ददृशे नास्य कश्चन
स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः
वायुनेव महाचैत्यः संभग्नोऽमिततेजसा
अनुगाश्चास्य वित्रस्ताः प्राद्रवन्सर्वतोदिशम्
आर्जुनेः कर्म तद्दृष्ट्व प्रणेदुश्च समन्ततः
नादेन सर्वभूतानि साधु साध्विति भारत
शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः
कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम्
अभ्यवर्तन्त संक्रुद्धा विविधायुधपाणयः
रथैरश्वैर्गजैश्चान्ये पादातैश्च बलोत्कटाः
बाणशब्देन महता खुरनेमिस्वनेन च
हुंकारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः सगर्जितैः
ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम्
ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवतामिति
तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव
यो यः स्म प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः
संदर्शयिष्यन्नस्त्राणि चित्राणि च लघूनि च
आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत
वासुदेवादुपात्तं यद्यदस्त्रं च धनंजयात्
अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषयन्
दूरमस्यन्गुरुं भारं साधयंश्च पुनः पुनः
संदधद्विसृजंश्चेषून्निर्विशेषमदृश्यत
चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत
तमो घ्नतः सुदीप्तस्य सवितुर्मण्डलं यथा
ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः
महाशनिमुचः काले पयोदस्येव निस्वनः
ह्रीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः
संमिमानयिषुर्वीरानिष्वासांश्चाप्ययुध्यत
मृदुर्भूत्वा महाराज दारुणः समपद्यत
वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः
शरान्विचित्रान्महतो रुक्मपुङ्खाञ्शिलाशितान्
मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः
क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः
नाराचैरर्धनाराचैर्भल्लैरज्ञलिकैरपि
अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः
ततस्तत्सैन्यमभवद्विमुखं शरपीडितम्