Mahabharata

Drona Parva, Adhyaya 36

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 36, Verse 1

तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा

दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात्

Mahabharata

Drona Parva, Adhyaya 36, Verse 2

ततो राजानमावृत्तं सौभद्रं प्रति संयुगे

दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम्

Mahabharata

Drona Parva, Adhyaya 36, Verse 3

पुराभिमन्युर्लक्ष्यं नः पश्यतां हन्ति वीर्यवान्

तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम्

Mahabharata

Drona Parva, Adhyaya 36, Verse 4

ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः

त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम्

Mahabharata

Drona Parva, Adhyaya 36, Verse 5

द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः

बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः

Mahabharata

Drona Parva, Adhyaya 36, Verse 6

पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान्

सौभद्रं शरवर्षेण महता समवाकिरन्

Mahabharata

Drona Parva, Adhyaya 36, Verse 7

संमोहयित्वा तमथ दुर्योधनममोचयन्

आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः

Mahabharata

Drona Parva, Adhyaya 36, Verse 8

ताञ्शरौघेण महता साश्वसूतान्महारथान्

विमुखीकृत्य सौभद्रः सिंहनादमथानदत्

Mahabharata

Drona Parva, Adhyaya 36, Verse 9

तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः

नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः

Mahabharata

Drona Parva, Adhyaya 36, Verse 10

त एनं कोष्ठकीकृत्य रथवंशेन मारिष

व्यसृजन्निषुजालानि नानालिङ्गानि संघशः

Mahabharata

Drona Parva, Adhyaya 36, Verse 11

तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैः शरैः

तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत्

Mahabharata

Drona Parva, Adhyaya 36, Verse 12

ततस्ते कोपितास्तेन शरैराशीविषोपमैः

परिवव्रुर्जिघांसन्तः सौभद्रमपलायिनम्

Mahabharata

Drona Parva, Adhyaya 36, Verse 13

समुद्रमिव पर्यस्तं त्वदीयं तद्बलार्णवम्

अभिमन्युर्दधारैको वेलेव मकरालयम्

Mahabharata

Drona Parva, Adhyaya 36, Verse 14

शूराणां युध्यमानानां निघ्नतामितरेतरम्

अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः

Mahabharata

Drona Parva, Adhyaya 36, Verse 15

तस्मिंस्तु घोरे संग्रामे वर्तमाने भयंकरे

दुःसहो नवभिर्बाणैरभिमन्युमविध्यत

Mahabharata

Drona Parva, Adhyaya 36, Verse 16

दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः

द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः

Mahabharata

Drona Parva, Adhyaya 36, Verse 17

विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः

बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः

Mahabharata

Drona Parva, Adhyaya 36, Verse 18

भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः

द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः

Mahabharata

Drona Parva, Adhyaya 36, Verse 19

स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः

नृत्यन्निव महाराज चापहस्तः प्रतापवान्

Mahabharata

Drona Parva, Adhyaya 36, Verse 20

ततोऽभिमन्युः संक्रुद्धस्ताप्यमानस्तवात्मजैः

विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम्

Mahabharata

Drona Parva, Adhyaya 36, Verse 21

गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः

दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत्

विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत्

Mahabharata

Drona Parva, Adhyaya 36, Verse 22

तस्याभिमन्युर्दशभिर्बाणैः सूतं हयान्ध्वजम्

बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत्

Mahabharata

Drona Parva, Adhyaya 36, Verse 23

ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे

संचचाल बलं सर्वं पलायनपरायणम्

Mahabharata

Drona Parva, Adhyaya 36, Verse 24

ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः

शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः

Mahabharata

Drona Parva, Adhyaya 36, Verse 25

वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः

वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः

दुर्योधनश्च संक्रुद्धः शरवर्षैरवाकिरन्

Mahabharata

Drona Parva, Adhyaya 36, Verse 26

सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः

शरमादत्त कर्णाय परकायावभेदनम्

Mahabharata

Drona Parva, Adhyaya 36, Verse 27

तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः

प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः

Mahabharata

Drona Parva, Adhyaya 36, Verse 28

स तेनातिप्रहारेण व्यथितो विह्वलन्निव

संचचाल रणे कर्णः क्षितिकम्पे यथाचलः

Mahabharata

Drona Parva, Adhyaya 36, Verse 29

अथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम्

कुण्डभेदिं च संक्रुद्धस्त्रिभिस्त्रीनवधीद्बली

Mahabharata

Drona Parva, Adhyaya 36, Verse 30

कर्णस्तं पञ्चविंशत्या नाराचानां समर्पयत्

अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः