Drona Parva, Adhyaya 35, Verse 1
सौभद्रस्तु वचः श्रुत्वा धर्मराजस्य धीमतः
अचोदयत यन्तारं द्रोणानीकाय भारत
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
सौभद्रस्तु वचः श्रुत्वा धर्मराजस्य धीमतः
अचोदयत यन्तारं द्रोणानीकाय भारत
तेन संचोद्यमानस्तु याहि याहीति सारथिः
प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः
अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः
संप्रधार्य क्षमं बुद्ध्या ततस्त्वं योद्धुमर्हसि
आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः
अत्यन्तसुखसंवृद्धस्त्वं च युद्धविशारदः
ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत्
सारथे को न्वयं द्रोणः समग्रं क्षत्रमेव वा
ऐरावतगतं शक्रं सहामरगणैरहम्
योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः
न ममैतद्द्विषत्सैन्यं कलामर्हति षोडशीम्
अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज
पितरं चार्जुनं संख्ये न भीर्मामुपयास्यति
ततोऽभिमन्युस्तां वाचं कदर्थीकृत्य सारथेः
याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम्
ततः संचोदयामास हयानस्य त्रिहायनान्
नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान्
ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः
द्रोणमभ्यद्रवन्राजन्महावेगपराक्रमाः
तमुदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः
अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः
स कर्णिकारप्रवरोच्छ्रितध्वजः; सुवर्णवर्मार्जुनिरर्जुनाद्वरः
युयुत्सया द्रोणमुखान्महारथा;न्समासदत्सिंहशिशुर्यथा गजान्
ते विंशतिपदे यत्ताः संप्रहारं प्रचक्रिरे
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव
शूराणां युध्यमानानां निघ्नतामितरेतरम्
संग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः
प्रवर्तमाने संग्रामे तस्मिन्नतिभयंकरे
द्रोणस्य मिषतो व्यूहं भित्त्वा प्राविशदार्जुनिः
तं प्रविष्टं परान्घ्नन्तं शत्रुमध्ये महाबलम्
हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः
नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः
हुंकारैः सिंहनादैश्च तिष्ठ तिष्ठेति निस्वनैः
घोरैर्हलहलाशब्दैर्मा गास्तिष्ठैहि मामिति
असावहममुत्रेति प्रवदन्तो मुहुर्मुहुः
बृंहितैः शिञ्जितैर्हासैः खुरनेमिस्वनैरपि
संनादयन्तो वसुधामभिदुद्रुवुरार्जुनिम्
तेषामापततां वीरः पूर्वं शीघ्रमथो दृढम्
क्षिप्रास्त्रो न्यवधीद्व्रातान्मर्मज्ञो मर्मभेदिभिः
ते हन्यमानाश्च तथा नानालिङ्गैः शितैः शरैः
अभिपेतुस्तमेवाजौ शलभा इव पावकम्
ततस्तेषां शरीरैश्च शरीरावयवैश्च सः
संतस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे
बद्धगोधाङ्गुलित्राणान्सशरावरकार्मुकान्
सासिचर्माङ्कुशाभीशून्सतोमरपरश्वधान्
सगुडायोमुखप्रासान्सर्ष्टितोमरपट्टिशान्
सभिण्डिपालपरिघान्सशक्तिवरकम्पनान्
सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान्
समुद्गरक्षेपणीयान्सपाशपरिघोपलान्
सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान्
संचिच्छेदार्जुनिर्वृत्तांस्त्वदीयानां सहस्रशः
तैः स्फुरद्भिर्महाराज शुशुभे लोहितोक्षितैः
पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष
सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः
संदष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं बहु
चारुस्रङ्मुकुटोष्णीषैर्मणिरत्नविराजितैः
विनालनलिनाकारैर्दिवाकरशशिप्रभैः
हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः
द्विषच्छिरोभिः पृथिवीमवतस्तार फाल्गुणिः