Mahabharata

Drona Parva, Adhyaya 34

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 34, Verse 1

तदनीकमनाधृष्यं भारद्वाजेन रक्षितम्

पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः

Mahabharata

Drona Parva, Adhyaya 34, Verse 2

सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः

कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः

Mahabharata

Drona Parva, Adhyaya 34, Verse 3

आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान्

चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः

Mahabharata

Drona Parva, Adhyaya 34, Verse 4

युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः

उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः

Mahabharata

Drona Parva, Adhyaya 34, Verse 5

द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान्

केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः

Mahabharata

Drona Parva, Adhyaya 34, Verse 6

एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः

समभ्यधावन्सहसा भारद्वाजं युयुत्सवः

Mahabharata

Drona Parva, Adhyaya 34, Verse 7

समवेतांस्तु तान्सर्वान्भारद्वाजोऽपि वीर्यवान्

असंभ्रान्तः शरौघेण महता समवारयत्

Mahabharata

Drona Parva, Adhyaya 34, Verse 8

महौघाः सलिलस्येव गिरिमासाद्य दुर्भिदम्

द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः

Mahabharata

Drona Parva, Adhyaya 34, Verse 9

पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः

न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः

Mahabharata

Drona Parva, Adhyaya 34, Verse 10

तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम्

यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह

Mahabharata

Drona Parva, Adhyaya 34, Verse 11

तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः

बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम्

Mahabharata

Drona Parva, Adhyaya 34, Verse 12

अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः

अविषह्यं गुरुं भारं सौभद्रे समवासृजत्

Mahabharata

Drona Parva, Adhyaya 34, Verse 13

वासुदेवादनवरं फल्गुनाच्चामितौजसम्

अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः

Mahabharata

Drona Parva, Adhyaya 34, Verse 14

एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु

चक्रव्यूहस्य न वयं विद्म भेदं कथंचन

Mahabharata

Drona Parva, Adhyaya 34, Verse 15

त्वं वार्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा

चक्रव्यूहं महाबाहो पञ्चमोऽन्यो न विद्यते

Mahabharata

Drona Parva, Adhyaya 34, Verse 16

अभिमन्यो वरं तात याचतां दातुमर्हसि

पितॄणां मातुलानां च सैन्यानां चैव सर्वशः

Mahabharata

Drona Parva, Adhyaya 34, Verse 17

धनंजयो हि नस्तात गर्हयेदेत्य संयुगात्

क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय

Mahabharata

Drona Parva, Adhyaya 34, Verse 18

द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि

पितॄणां जयमाकाङ्क्षन्नवगाहे भिनद्मि च

Mahabharata

Drona Parva, Adhyaya 34, Verse 19

उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने

नोत्सहे तु विनिर्गन्तुमहं कस्यांचिदापदि

Mahabharata

Drona Parva, Adhyaya 34, Verse 20

भिन्ध्यनीकं युधा श्रेष्ठ द्वारं संजनयस्व नः

वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि

Mahabharata

Drona Parva, Adhyaya 34, Verse 21

धनंजयसमं युद्धे त्वां वयं तात संयुगे

प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः

Mahabharata

Drona Parva, Adhyaya 34, Verse 22

अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः

पाञ्चालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः

Mahabharata

Drona Parva, Adhyaya 34, Verse 23

सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः

वयं प्रध्वंसयिष्यामो निघ्नमाना वरान्वरान्

Mahabharata

Drona Parva, Adhyaya 34, Verse 24

अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम्

पतंग इव संक्रुद्धो ज्वलितं जातवेदसम्

Mahabharata

Drona Parva, Adhyaya 34, Verse 25

तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः

मातुलस्य च या प्रीतिर्भविष्यति पितुश्च मे

Mahabharata

Drona Parva, Adhyaya 34, Verse 26

शिशुनैकेन संग्रामे काल्यमानानि संघशः

अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मया

Mahabharata

Drona Parva, Adhyaya 34, Verse 27

एवं ते भाषमाणस्य बलं सौभद्र वर्धताम्

यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम्

Mahabharata

Drona Parva, Adhyaya 34, Verse 28

रक्षितं पुरुषव्याघ्रैर्महेष्वासैः प्रहारिभिः

साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः

Mahabharata

Drona Parva, Adhyaya 34, Verse 29

तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत्

सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय