Drona Parva, Adhyaya 33, Verse 1
समरेऽत्युग्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः
सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
समरेऽत्युग्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः
सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः
सत्त्वकर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया
नैव भूतो न भविता कृष्णतुल्यगुणः पुमान्
सत्यधर्मपरो दाता विप्रपूजादिभिर्गुणैः
सदैव त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः
युगान्ते चान्तको राजञ्जामदग्न्यश्च वीर्यवान्
रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः
प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः
उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ
गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः
नकुलेऽप्रातिरूप्यं च शौर्यं च नियतानि षट्
श्रुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः
सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः
ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः
अभिमन्यौ किलैकस्था दृश्यन्ते गुणसंचयाः
युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च
कर्मभिर्भीमसेनस्य सदृशो भीमकर्मणः
धनंजयस्य रूपेण विक्रमेण श्रुतेन च
विनयात्सहदेवस्य सदृशो नकुलस्य च
अभिमन्युमहं सूत सौभद्रमपराजितम्
श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः
चक्रव्यूहो महाराज आचार्येणाभिकल्पितः
तत्र शक्रोपमाः सर्वे राजानो विनिवेशिताः
संघातो राजपुत्राणां सर्वेषामभवत्तदा
कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः
रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः
सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः
तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम्
पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम्
अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः
अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः
कर्णदुःशासनकृपैर्वृतो राजा महारथैः
देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः
चामरव्यजनाक्षेपैरुदयन्निव भास्करः
प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायके
सिन्धुराजस्तथातिष्ठच्छ्रीमान्मेरुरिवाचलः
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः
सुतास्तव महाराज त्रिंशत्त्रिदशसंनिभाः
गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा
पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः