Mahabharata

Drona Parva, Adhyaya 32

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 32, Verse 1

पूर्वमस्मासु भग्नेषु फल्गुनेनामितौजसा

द्रोणे च मोघसंकल्पे रक्षिते च युधिष्ठिरे

Mahabharata

Drona Parva, Adhyaya 32, Verse 2

सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः

रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश

Mahabharata

Drona Parva, Adhyaya 32, Verse 3

अवहारं ततः कृत्वा भारद्वाजस्य संमते

लब्धलक्ष्यैः परैर्दीना भृशावहसिता रणे

Mahabharata

Drona Parva, Adhyaya 32, Verse 4

श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान्

केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति

अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः

Mahabharata

Drona Parva, Adhyaya 32, Verse 5

ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत्

प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः

शृण्वतां सर्वभूतानां संरब्धो वाक्यकोविदः

Mahabharata

Drona Parva, Adhyaya 32, Verse 6

नूनं वयं वध्यपक्षे भवतो ब्रह्मवित्तम

तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम्

Mahabharata

Drona Parva, Adhyaya 32, Verse 7

इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः

जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः

Mahabharata

Drona Parva, Adhyaya 32, Verse 8

वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि

आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथंचन

Mahabharata

Drona Parva, Adhyaya 32, Verse 9

ततोऽप्रीतस्तथोक्तः स भारद्वाजोऽब्रवीन्नृपम्

नार्हसे मान्यथा ज्ञातुं घटमानं तव प्रिये

Mahabharata

Drona Parva, Adhyaya 32, Verse 10

ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः

नालं लोका रणे जेतुं पाल्यमानं किरीटिना

Mahabharata

Drona Parva, Adhyaya 32, Verse 11

विश्वसृग्यत्र गोविन्दः पृतनारिस्तथार्जुनः

तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः

Mahabharata

Drona Parva, Adhyaya 32, Verse 12

सत्यं तु ते ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत्

अद्यैषां प्रवरं वीरं पातयिष्ये महारथम्

Mahabharata

Drona Parva, Adhyaya 32, Verse 13

तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि

योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम्

Mahabharata

Drona Parva, Adhyaya 32, Verse 14

न ह्यज्ञातमसाध्यं वा तस्य संख्येऽस्ति किंचन

तेन ह्युपात्तं बलवत्सर्वज्ञानमितस्ततः

Mahabharata

Drona Parva, Adhyaya 32, Verse 15

द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः

आह्वयन्नर्जुनं संख्ये दक्षिणामभितो दिशम्

Mahabharata

Drona Parva, Adhyaya 32, Verse 16

तत्रार्जुनस्याथ परैः सार्धं समभवद्रणः

तादृशो यादृशो नान्यः श्रुतो दृष्टोऽपि वा क्वचित्

Mahabharata

Drona Parva, Adhyaya 32, Verse 17

ततो द्रोणेन विहितो राजन्व्यूहो व्यरोचत

चरन्मध्यंदिने सूर्यः प्रतपन्निव दुर्दृशः

Mahabharata

Drona Parva, Adhyaya 32, Verse 18

तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत

बिभेद दुर्भिदं संख्ये चक्रव्यूहमनेकधा

Mahabharata

Drona Parva, Adhyaya 32, Verse 19

स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः

षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः

Mahabharata

Drona Parva, Adhyaya 32, Verse 20

वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः

सौभद्रे निहते राजन्नवहारमकुर्वत

Mahabharata

Drona Parva, Adhyaya 32, Verse 21

पुत्रं पुरुषसिंहस्य संजयाप्राप्तयौवनम्

रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः

Mahabharata

Drona Parva, Adhyaya 32, Verse 22

दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः

यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन्

Mahabharata

Drona Parva, Adhyaya 32, Verse 23

बालमत्यन्तसुखिनं विचरन्तमभीतवत्

कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम्

Mahabharata

Drona Parva, Adhyaya 32, Verse 24

बिभित्सता रथानीकं सौभद्रेणामितौजसा

विक्रीडितं यथा संख्ये तन्ममाचक्ष्व संजय

Mahabharata

Drona Parva, Adhyaya 32, Verse 25

यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम्

तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः

विक्रीडितं कुमारेण यथानीकं बिभित्सता

Mahabharata

Drona Parva, Adhyaya 32, Verse 26

दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे

वनौकसामिवारण्ये त्वदीयानामभूद्भयम्