Drona Parva, Adhyaya 31, Verse 1
प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः
सोऽभिनद्बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः
Containing 77 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः
सोऽभिनद्बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः
तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरयस्मयैः
जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह
कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः
षड्भिर्दुर्योधनो राजा तत एनमवाकिरत्
भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः
द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः
दुर्योधनं द्वादशभिर्द्रौणिं चाष्टाभिराशुगैः
आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे
तस्मिन्संत्यजति प्राणान्मृत्युसाधारणीकृते
अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत्
ते ययुर्भीमसेनस्य समीपममितौजसः
युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ
ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः
महेष्वासवरैर्गुप्तं द्रोणानीकं बिभित्सवः
समापेतुर्महावीर्या भीमप्रभृतयो रथाः
तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः
महाबलानतिरथान्वीरान्समरशोभिनः
बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान्ययुः
सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान्
आसीच्छक्त्यसिसंपातो युद्धमासीत्परश्वधैः
निकृष्टमसियुद्धं च बभूव कटुकोदयम्
कुञ्जराणां च संघातैर्युद्धमासीत्सुदारुणम्
अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्शिराः
नरो बाणेन निर्भिन्नो रथादन्यश्च मारिष
तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः
शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः
अपरेऽप्यपराञ्जघ्नुर्वारणाः पतितान्नरान्
विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून्
नरान्त्रैः केचिदपरे विषाणालग्नसंस्रवैः
बभ्रमुः शतशो नागा मृद्नन्तः शतशो नरान्
कांस्यायसतनुत्राणान्नराश्वरथकुञ्जरान्
पतितान्पोथयां चक्रुर्द्विपाः स्थूलनडानिव
गृध्रपत्राधिवासांसि शयनानि नराधिपाः
ह्रीमन्तः कालसंपक्वाः सुदुःखान्यधिशेरते
हन्ति स्मात्र पिता पुत्रं रथेनाभ्यतिवर्तते
पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत
अक्षो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यां निपातितम्
युगार्धं छिन्नमादाय प्रदुद्राव तथा हयः
सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम्
गजेनाक्षिप्य बलिना रथः संचूर्णितः क्षितौ
रथिना ताडितो नागो नाराचेनापतद्व्यसुः
सारोहश्चापतद्वाजी गजेनाताडितो भृशम्
निर्मर्यादं महद्युद्धमवर्तत सुदारुणम्
हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि
प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः
इत्येवमुच्चरन्त्यः स्म श्रूयन्ते विविधा गिरः
नरस्याश्वस्य नागस्य समसज्जत शोणितम्
उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत्
आसीत्केशपरामर्शो मुष्टियुद्धं च दारुणम्
नखैर्दन्तैश्च शूराणामद्वीपे द्वीपमिच्छताम्
तत्राच्छिद्यत वीरस्य सखड्गो बाहुरुद्यतः
सधनुश्चापरस्यापि सशरः साङ्कुशस्तथा
प्राक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत्
अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत्
शब्दमभ्यद्रवच्चान्यः शब्दादन्योऽद्रवद्भृशम्
स्वानन्योऽथ परानन्यो जघान निशितैः शरैः
गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः
मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे