Mahabharata

Drona Parva, Adhyaya 30

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 30, Verse 1

तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण संजय

चलितानां द्रुतानां च कथमासीन्मनो हि वः

Mahabharata

Drona Parva, Adhyaya 30, Verse 2

अनीकानां प्रभग्नानां व्यवस्थानमपश्यताम्

दुष्करं प्रतिसंधानं तन्ममाचक्ष्व संजय

Mahabharata

Drona Parva, Adhyaya 30, Verse 3

तथापि तव पुत्रस्य प्रियकामा विशां पते

यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः

Mahabharata

Drona Parva, Adhyaya 30, Verse 4

समुद्यतेषु शस्त्रेषु संप्राप्ते च युधिष्ठिरे

अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत्

Mahabharata

Drona Parva, Adhyaya 30, Verse 5

अन्तरं भीमसेनस्य प्रापतन्नमितौजसः

सात्यकेश्चैव शूरस्य धृष्टद्युम्नस्य चाभिभो

Mahabharata

Drona Parva, Adhyaya 30, Verse 6

द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन्

मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन्

Mahabharata

Drona Parva, Adhyaya 30, Verse 7

द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे

कुरूणां पाण्डवानां च द्रोणद्यूतमवर्तत

Mahabharata

Drona Parva, Adhyaya 30, Verse 8

यं यं स्म भजते द्रोणः पाञ्चालानां रथव्रजम्

तत्र तत्र स्म पाञ्चाल्यो धृष्टद्युम्नोऽथ धीयते

Mahabharata

Drona Parva, Adhyaya 30, Verse 9

यथाभागविपर्यासे संग्रामे भैरवे सति

वीराः समासदन्वीरानगच्छन्भीरवः परान्

Mahabharata

Drona Parva, Adhyaya 30, Verse 10

अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः

अकम्पयंस्त्वनीकानि स्मरन्तः क्लेशमात्मनः

Mahabharata

Drona Parva, Adhyaya 30, Verse 11

ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः

त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे

Mahabharata

Drona Parva, Adhyaya 30, Verse 12

अयसामिव संपातः शिलानामिव चाभवत्

दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम्

Mahabharata

Drona Parva, Adhyaya 30, Verse 13

न तु स्मरन्ति संग्राममपि वृद्धास्तथाविधम्

दृष्टपूर्वं महाराज श्रुतपूर्वमथापि वा

Mahabharata

Drona Parva, Adhyaya 30, Verse 14

प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने

प्रवर्तता बलौघेन महता भारपीडिता

Mahabharata

Drona Parva, Adhyaya 30, Verse 15

घूर्णतो हि बलौघस्य दिवं स्तब्ध्वेव निस्वनः

अजातशत्रोः क्रुद्धस्य पुत्रस्य तव चाभवत्

Mahabharata

Drona Parva, Adhyaya 30, Verse 16

समासाद्य तु पाण्डूनामनीकानि सहस्रशः

द्रोणेन चरता संख्ये प्रभग्नानि शितैः शरैः

Mahabharata

Drona Parva, Adhyaya 30, Verse 17

तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा

पर्यवारयदासाद्य द्रोणं सेनापतिः स्वयम्

Mahabharata

Drona Parva, Adhyaya 30, Verse 18

तदद्भुतमभूद्युद्धं द्रोणपाञ्चाल्ययोस्तदा

नैव तस्योपमा काचित्संभवेदिति मे मतिः

Mahabharata

Drona Parva, Adhyaya 30, Verse 19

ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम्

शरस्फुलिङ्गश्चापार्चिर्दहन्कक्षमिवानलः

Mahabharata

Drona Parva, Adhyaya 30, Verse 20

तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान्

पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत

Mahabharata

Drona Parva, Adhyaya 30, Verse 21

नील किं बहुभिर्दग्धैस्तव योधैः शरार्चिषा

मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशुगैः

Mahabharata

Drona Parva, Adhyaya 30, Verse 22

तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम्

व्याकोशपद्माभमुखं नीलो विव्याध सायकैः

Mahabharata

Drona Parva, Adhyaya 30, Verse 23

तेनातिविद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः

धनुर्ध्वजं च छत्रं च द्विषतः स न्यकृन्तत

Mahabharata

Drona Parva, Adhyaya 30, Verse 24

सोत्प्लुत्य स्यन्दनात्तस्मान्नीलश्चर्मवरासिधृक्

द्रोणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्रिवत्

Mahabharata

Drona Parva, Adhyaya 30, Verse 25

तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम्

भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ

Mahabharata

Drona Parva, Adhyaya 30, Verse 26

संपूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः

प्रांशुरुत्पलगर्भाभो निहतो न्यपतत्क्षितौ

Mahabharata

Drona Parva, Adhyaya 30, Verse 27

ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला

आचार्यपुत्रेण हते नीले ज्वलिततेजसि

Mahabharata

Drona Parva, Adhyaya 30, Verse 28

अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः

कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष

Mahabharata

Drona Parva, Adhyaya 30, Verse 29

दक्षिणेन तु सेनायाः कुरुते कदनं बली

संशप्तकावशेषस्य नारायणबलस्य च