Drona Parva, Adhyaya 29, Verse 1
प्रियमिन्द्रस्य सततं सखायममितौजसम्
हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रियमिन्द्रस्य सततं सखायममितौजसम्
हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत
ततो गान्धारराजस्य सुतौ परपुरंजयौ
आर्छेतामर्जुनं संख्ये भ्रातरौ वृषकाचलौ
तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ
अविध्येतां महावेगैर्निशितैराशुगैर्भृशम्
वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम्
तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः
ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि
गान्धारान्व्याकुलांश्चक्रे सौबलप्रमुखान्पुनः
ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान्
प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनंजयः
हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः
आरुरोह रथं भ्रातुरन्यच्च धनुराददे
तावेकरथमारूढौ भ्रातरौ वृषकाचलौ
शरवर्षेण बीभत्सुमविध्येतां पुनः पुनः
स्यालौ तव महात्मानौ राजानौ वृषकाचलौ
भृशं निजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव
लब्धलक्ष्यौ तु गान्धारावहतां पाण्डवं पुनः
निदाघवार्षिकौ मासौ लोकं घर्माम्बुभिर्यथा
तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ
संश्लिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणार्जुनः
तौ रथात्सिंहसंकाशौ लोहिताक्षौ महाभुजौ
गतासू पेततुर्वीरौ सोदर्यावेकलक्षणौ
तयोर्देहौ रथाद्भूमिं गतौ बन्धुजनप्रियौ
यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ
दृष्ट्वा विनिहतौ संख्ये मातुलावपलायिनौ
भृशं मुमुचुरश्रूणि पुत्रास्तव विशां पते
निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः
कृष्णौ संमोहयन्मायां विदधे शकुनिस्ततः
लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः
गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः
सकम्पनर्ष्टिनखरा मुसलानि परश्वधाः
क्षुराः क्षुरप्रनालीका वत्सदन्तास्त्रिसंधिनः
चक्राणि विशिखाः प्रासा विविधान्यायुधानि च
प्रपेतुः सर्वतो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति
खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचिल्लिकाः
ऋक्षाः सालावृका गृध्राः कपयोऽथ सरीसृपाः
विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति
संक्रुद्धान्यभ्यधावन्त विविधानि वयांसि च
ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनंजयः
विसृजन्निषुजालानि सहसा तान्यताडयत्
ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः
विरुवन्तो महारावान्विनेशुः सर्वतो हताः
ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति
तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन्
तत्तमोऽस्त्रेण महता ज्योतिषेणार्जुनोऽवधीत्
हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः
अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः
प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम्
एवं बहुविधा मायाः सौबलस्य कृताः कृताः
जघानास्त्रबलेनाशु प्रहसन्नर्जुनस्तदा
तथा हतासु मायासु त्रस्तोऽर्जुनशराहतः
अपायाज्जवनैरश्वैः शकुनिः प्राकृतो यथा
ततोऽर्जुनोऽस्त्रविच्छ्रैष्ठ्यं दर्शयन्नात्मनोऽरिषु
अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम्
सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी
द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम्
द्रोणमेवान्वपद्यन्त केचित्तत्र महारथाः
केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना