Mahabharata

Drona Parva, Adhyaya 28

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 28, Verse 1

तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः

प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम्

Mahabharata

Drona Parva, Adhyaya 28, Verse 2

प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ

मृत्योरिवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे

Mahabharata

Drona Parva, Adhyaya 28, Verse 3

तथा हि शरवर्षाणि पातयत्यनिशं प्रभो

भगदत्तो गजस्कन्धात्कृष्णयोः स्यन्दनस्थयोः

Mahabharata

Drona Parva, Adhyaya 28, Verse 4

अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः

अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः

Mahabharata

Drona Parva, Adhyaya 28, Verse 5

अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः

निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः शरास्ततः

Mahabharata

Drona Parva, Adhyaya 28, Verse 6

तस्य पार्थो धनुश्छित्त्वा शरावापं निहत्य च

लाडयन्निव राजानं भगदत्तमयोधयत्

Mahabharata

Drona Parva, Adhyaya 28, Verse 7

सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश

प्रेरयत्सव्यसाची तांस्त्रिधैकैकमथाच्छिनत्

Mahabharata

Drona Parva, Adhyaya 28, Verse 8

ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः

शरजालेन स बभौ व्यभ्रः पर्वतराडिव

Mahabharata

Drona Parva, Adhyaya 28, Verse 9

ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम्

व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत्

Mahabharata

Drona Parva, Adhyaya 28, Verse 10

ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः

विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वताधिपम्

Mahabharata

Drona Parva, Adhyaya 28, Verse 11

सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः

भगदत्तस्ततः क्रुद्धः पाण्डवस्य महात्मनः

Mahabharata

Drona Parva, Adhyaya 28, Verse 12

व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्ननाद च

तैरर्जुनस्य समरे किरीटं परिवर्तितम्

Mahabharata

Drona Parva, Adhyaya 28, Verse 13

परिवृत्तं किरीटं तं यमयन्नेव फल्गुनः

सुदृष्टः क्रियतां लोक इति राजानमब्रवीत्

Mahabharata

Drona Parva, Adhyaya 28, Verse 14

एवमुक्तस्तु संक्रुद्धः शरवर्षेण पाण्डवम्

अभ्यवर्षत्सगोविन्दं धनुरादाय भास्वरम्

Mahabharata

Drona Parva, Adhyaya 28, Verse 15

तस्य पार्थो धनुश्छित्त्वा तूणीरान्संनिकृत्य च

त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत्

Mahabharata

Drona Parva, Adhyaya 28, Verse 16

विद्धस्तथाप्यव्यथितो वैष्णवास्त्रमुदीरयन्

अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि

Mahabharata

Drona Parva, Adhyaya 28, Verse 17

विसृष्टं भगदत्तेन तदस्त्रं सर्वघातकम्

उरसा प्रतिजग्राह पार्थं संछाद्य केशवः

Mahabharata

Drona Parva, Adhyaya 28, Verse 18

वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि

ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत

Mahabharata

Drona Parva, Adhyaya 28, Verse 19

अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन

इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि

Mahabharata

Drona Parva, Adhyaya 28, Verse 20

यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे

ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते

Mahabharata

Drona Parva, Adhyaya 28, Verse 21

सबाणः सधनुश्चाहं ससुरासुरमानवान्

शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव

Mahabharata

Drona Parva, Adhyaya 28, Verse 22

ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः

शृणु गुह्यमिदं पार्थ यथा वृत्तं पुरानघ

Mahabharata

Drona Parva, Adhyaya 28, Verse 23

चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः

आत्मानं प्रविभज्येह लोकानां हितमादधे

Mahabharata

Drona Parva, Adhyaya 28, Verse 24

एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता

अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी

Mahabharata

Drona Parva, Adhyaya 28, Verse 25

अपरा कुरुते कर्म मानुषं लोकमाश्रिता

शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकाम्

Mahabharata

Drona Parva, Adhyaya 28, Verse 26

यासौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम

वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा

Mahabharata

Drona Parva, Adhyaya 28, Verse 27

तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा

प्रायाचत वरं यं मां नरकार्थाय तं शृणु

Mahabharata

Drona Parva, Adhyaya 28, Verse 28

देवानामसुराणां च अवध्यस्तनयोऽस्तु मे

उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि

Mahabharata

Drona Parva, Adhyaya 28, Verse 29

एवं वरमहं श्रुत्वा जगत्यास्तनये तदा

अमोघमस्त्रमददं वैष्णवं तदहं पुरा

Mahabharata

Drona Parva, Adhyaya 28, Verse 30

अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे

नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति