Mahabharata

Drona Parva, Adhyaya 27

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 27, Verse 1

यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान्

अप्रैषीद्धेमसंछन्नान्द्रोणानीकाय पाण्डुरान्

Mahabharata

Drona Parva, Adhyaya 27, Verse 2

तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान्

सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात्

Mahabharata

Drona Parva, Adhyaya 27, Verse 3

ततः श्वेतहयः कृष्णमब्रवीदजितं जयः

एष मां भ्रातृभिः सार्धं सुशर्माह्वयतेऽच्युत

Mahabharata

Drona Parva, Adhyaya 27, Verse 4

दीर्यते चोत्तरेणैतत्सैन्यं नः शत्रुसूदन

द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम्

Mahabharata

Drona Parva, Adhyaya 27, Verse 5

किं नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान्

इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत्

Mahabharata

Drona Parva, Adhyaya 27, Verse 6

एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत्

येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत्

Mahabharata

Drona Parva, Adhyaya 27, Verse 7

ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः

ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत

Mahabharata

Drona Parva, Adhyaya 27, Verse 8

त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिरायसैः

साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम्

Mahabharata

Drona Parva, Adhyaya 27, Verse 9

ततो भुजगसंकाशां सुशर्मा शक्तिमायसीम्

चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम्

Mahabharata

Drona Parva, Adhyaya 27, Verse 10

शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः

सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तत

Mahabharata

Drona Parva, Adhyaya 27, Verse 11

तं वासवमिवायान्तं भूरिवर्षशरौघिणम्

राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत्

Mahabharata

Drona Parva, Adhyaya 27, Verse 12

ततो धनंजयो बाणैस्तत एव महारथान्

आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः

Mahabharata

Drona Parva, Adhyaya 27, Verse 13

तस्य वेगमसह्यं तु कुन्तीपुत्रस्य धीमतः

नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः

Mahabharata

Drona Parva, Adhyaya 27, Verse 14

संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः

सुपर्णपातवद्राजन्नायात्प्राग्ज्योतिषं प्रति

Mahabharata

Drona Parva, Adhyaya 27, Verse 15

यत्तदानामयज्जिष्णुर्भरतानामपायिनाम्

धनुः क्षेमकरं संख्ये द्विषतामश्रुवर्धनम्

Mahabharata

Drona Parva, Adhyaya 27, Verse 16

तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः

कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः

Mahabharata

Drona Parva, Adhyaya 27, Verse 17

तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी

व्यदीर्यत महाराज नौरिवासाद्य पर्वतम्

Mahabharata

Drona Parva, Adhyaya 27, Verse 18

ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम्

मतिं कृत्वा रणे क्रुद्धा वीरा जयपराजये

Mahabharata

Drona Parva, Adhyaya 27, Verse 19

व्यपेतहृदयत्रास आपद्धर्मातिगो रथः

आर्छत्पार्थो गुरुं भारं सर्वभारसहो युधि

Mahabharata

Drona Parva, Adhyaya 27, Verse 20

यथा नडवनं क्रुद्धः प्रभिन्नः षष्टिहायनः

मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमूं तव

Mahabharata

Drona Parva, Adhyaya 27, Verse 21

तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः

तेन नागेन सहसा धनंजयमुपाद्रवत्

Mahabharata

Drona Parva, Adhyaya 27, Verse 22

तं रथेन नरव्याघ्रः प्रत्यगृह्णादभीतवत्

स संनिपातस्तुमुलो बभूव रथनागयोः

Mahabharata

Drona Parva, Adhyaya 27, Verse 23

कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च

संग्रामे चेरतुर्वीरौ भगदत्तधनंजयौ

Mahabharata

Drona Parva, Adhyaya 27, Verse 24

ततो जीमूतसंकाशान्नागादिन्द्र इवाभिभूः

अभ्यवर्षच्छरौघेण भगदत्तो धनंजयम्

Mahabharata

Drona Parva, Adhyaya 27, Verse 25

स चापि शरवर्षं तच्छरवर्षेण वासविः

अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान्

Mahabharata

Drona Parva, Adhyaya 27, Verse 26

ततः प्राग्ज्योतिषो राजा शरवर्षं निवार्य तत्

शरैर्जघ्ने महाबाहुं पार्थं कृष्णं च भारत

Mahabharata

Drona Parva, Adhyaya 27, Verse 27

ततः स शरजालेन महताभ्यवकीर्य तौ

चोदयामास तं नागं वधायाच्युतपार्थयोः

Mahabharata

Drona Parva, Adhyaya 27, Verse 28

तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम्

चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः

Mahabharata

Drona Parva, Adhyaya 27, Verse 29

संप्राप्तमपि नेयेष परावृत्तं महाद्विपम्

सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनंजयः

Mahabharata

Drona Parva, Adhyaya 27, Verse 30

स तु नागो द्विपरथान्हयांश्चारुज्य मारिष

प्राहिणोन्मृत्युलोकाय ततोऽक्रुध्यद्धनंजयः