Mahabharata

Drona Parva, Adhyaya 26

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 26, Verse 1

यन्मां पार्थस्य संग्रामे कर्माणि परिपृच्छसि

तच्छृणुष्व महाराज पार्थो यदकरोन्मृधे

Mahabharata

Drona Parva, Adhyaya 26, Verse 2

रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम्

भज्यतां भगदत्तेन कौन्तेयः कृष्णमब्रवीत्

Mahabharata

Drona Parva, Adhyaya 26, Verse 3

यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन

त्वरमाणोऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः

Mahabharata

Drona Parva, Adhyaya 26, Verse 4

इन्द्रादनवरः संख्ये गजयानविशारदः

प्रथमो वा द्वितीयो वा पृथिव्यामिति मे मतिः

Mahabharata

Drona Parva, Adhyaya 26, Verse 5

स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधि

सर्वशब्दातिगः संख्ये कृतकर्मा जितक्लमः

Mahabharata

Drona Parva, Adhyaya 26, Verse 6

सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ

स पाण्डवबलं व्यक्तमद्यैको नाशयिष्यति

Mahabharata

Drona Parva, Adhyaya 26, Verse 7

न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम्

त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः

Mahabharata

Drona Parva, Adhyaya 26, Verse 8

शक्रसख्याद्द्विपबलैर्वयसा चापि विस्मितम्

अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम्

Mahabharata

Drona Parva, Adhyaya 26, Verse 9

वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः

दार्यते भगदत्तेन यत्र पाण्डववाहिनी

Mahabharata

Drona Parva, Adhyaya 26, Verse 10

तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः

संशप्तकाः समारोहन्सहस्राणि चतुर्दश

Mahabharata

Drona Parva, Adhyaya 26, Verse 11

दशैव तु सहस्राणि त्रिगर्तानां नराधिप

चत्वारि तु सहस्राणि वासुदेवस्य येऽनुगाः

Mahabharata

Drona Parva, Adhyaya 26, Verse 12

दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष

आहूयमानस्य च तैरभवद्धृदयं द्विधा

Mahabharata

Drona Parva, Adhyaya 26, Verse 13

किं नु श्रेयस्करं कर्म भवेदिति विचिन्तयन्

इतो वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम्

Mahabharata

Drona Parva, Adhyaya 26, Verse 14

तस्य बुद्ध्या विचार्यैतदर्जुनस्य कुरूद्वह

अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा

Mahabharata

Drona Parva, Adhyaya 26, Verse 15

स संनिवृत्तः सहसा कपिप्रवरकेतनः

एको रथसहस्राणि निहन्तुं वासवी रणे

Mahabharata

Drona Parva, Adhyaya 26, Verse 16

सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः

अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत्

Mahabharata

Drona Parva, Adhyaya 26, Verse 17

स तु संवर्तयामास द्वैधीभावेन पाण्डवः

रथेन तु रथाग्र्याणामकरोत्तां मृषा तदा

Mahabharata

Drona Parva, Adhyaya 26, Verse 18

ततः शतसहस्राणि शराणां नतपर्वणाम्

व्यसृजन्नर्जुने राजन्संशप्तकमहारथाः

Mahabharata

Drona Parva, Adhyaya 26, Verse 19

नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः

न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः

Mahabharata

Drona Parva, Adhyaya 26, Verse 20

यदा मोहमनुप्राप्तः सस्वेदश्च जनार्दनः

ततस्तान्प्रायशः पार्थो वज्रास्त्रेण निजघ्निवान्

Mahabharata

Drona Parva, Adhyaya 26, Verse 21

शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः

केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ

Mahabharata

Drona Parva, Adhyaya 26, Verse 22

द्रुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः

हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः

Mahabharata

Drona Parva, Adhyaya 26, Verse 23

विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः

सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः

Mahabharata

Drona Parva, Adhyaya 26, Verse 24

सर्ष्टिचर्मासिनखराः समुद्गरपरश्वधाः

संछिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना

Mahabharata

Drona Parva, Adhyaya 26, Verse 25

बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष

संछिन्नान्यर्जुनशरैः शिरांस्युर्वीं प्रपेदिरे

Mahabharata

Drona Parva, Adhyaya 26, Verse 26

जज्वालालंकृतैः सेना पत्रिभिः प्राणभोजनैः

नानालिङ्गैस्तदामित्रान्क्रुद्धे निघ्नति फल्गुने

Mahabharata

Drona Parva, Adhyaya 26, Verse 27

क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव

धनंजयं भूतगणाः साधु साध्वित्यपूजयन्

Mahabharata

Drona Parva, Adhyaya 26, Verse 28

दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः

विस्मयं परमं गत्वा तलमाहत्य पूजयत्

Mahabharata

Drona Parva, Adhyaya 26, Verse 29

ततः संशप्तकान्हत्वा भूयिष्ठं ये व्यवस्थिताः

भगदत्ताय याहीति पार्थः कृष्णमचोदयत्