Drona Parva, Adhyaya 25, Verse 1
तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः
कथं युयुधिरे पार्था मामकाश्च तरस्विनः
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः
कथं युयुधिरे पार्था मामकाश्च तरस्विनः
किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति
संशप्तका वा पार्थस्य किमकुर्वत संजय
तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः
स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः
स नाग इव नागेन गोवृषेणेव गोवृषः
समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत्
स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः
अभिनत्कुञ्जरानीकमचिरेणैव मारिष
ते गजा गिरिसंकाशाः क्षरन्तः सर्वतो मदम्
भीमसेनस्य नाराचैर्विमुखा विमदीकृताः
विधमेदभ्रजालानि यथा वायुः समन्ततः
व्यधमत्तान्यनीकानि तथैव पवनात्मजः
स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत
भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः
ते भीमबाणैः शतशः संस्यूता विबभुर्गजाः
गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः
तथा गजानां कदनं कुर्वाणमनिलात्मजम्
क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः
ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः
क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः
स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम्
नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव
तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम्
भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः
दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष
चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः
तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम्
कुम्भान्तरे भीमसेनो नाराचेनार्दयद्भृशम्
तस्य कायं विनिर्भिद्य ममज्ज धरणीतले
ततः पपात द्विरदो वज्राहत इवाचलः
तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः
शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः
तस्मिन्निपतिते वीरे संप्राद्रवत सा चमूः
संभ्रान्ताश्वद्विपरथा पदातीनवमृद्नती
तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः
प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत्
येन नागेन मघवानजयद्दैत्यदानवान्
स नागप्रवरो भीमं सहसा समुपाद्रवत्
श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च
व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम्
ततः सर्वस्य सैन्यस्य नादः समभवन्महान्
हा हा विनिहतो भीमः कुञ्जरेणेति मारिष
तेन नादेन वित्रस्ता पाण्डवानामनीकिनी
सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम्
भगदत्तं सपाञ्चालः सर्वतः समवारयत्
तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः
अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः
स विघातं पृषत्कानामङ्कुशेन समाचरन्
गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः
तदद्भुतमपश्याम भगदत्तस्य संयुगे
तथा वृद्धस्य चरितं कुञ्जरेण विशां पते
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत्
तिर्यग्यातेन नागेन समदेनाशुगामिना
तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः
सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा
प्राग्ज्योतिषपतेर्नागः संनिपत्यापवृत्य च
पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत्