Drona Parva, Adhyaya 23, Verse 1
व्यथयेयुरिमे सेनां देवानामपि संयुगे
आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यथयेयुरिमे सेनां देवानामपि संयुगे
आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः
संप्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः
तस्मिन्नेव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः
दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी
अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः
स एव महतीं सेनां समावर्तयदाहवे
किमन्यद्दैवसंयोगान्मम पुत्रस्य चाभवत्
युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः
स तथाकृष्यते तेन न यथा स्वयमिच्छति
द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः
स पुनर्भागधेयेन सहायानुपलब्धवान्
अर्धं मे केकया लब्धाः काशिकाः कोसलाश्च ये
चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः
पृथिवी भूयसी तात मम पार्थस्य नो तथा
इति मामब्रवीत्सूत मन्दो दुर्योधनस्तदा
तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः
निहतः पार्षतेनाजौ किमन्यद्भागधेयतः
मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम्
सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान्
समनुप्राप्तकृच्छ्रोऽहं संमोहं परमं गतः
भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे
यन्मा क्षत्ताब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम्
दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह
नृशंसं तु परं तत्स्यात्त्यक्त्वा दुर्योधनं यदि
पुत्रशेषं चिकीर्षेयं कृच्छ्रं न मरणं भवेत्
यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः
सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति
अद्य चाप्यस्य राष्ट्रस्य हतोत्साहस्य संजय
अवशेषं न पश्यामि ककुदे मृदिते सति
कथं स्यादवशेषं हि धुर्ययोरभ्यतीतयोः
यौ नित्यमनुजीवामः क्षमिणौ पुरुषर्षभौ
व्यक्तमेव च मे शंस यथा युद्धमवर्तत
केऽयुध्यन्के व्यपाकर्षन्के क्षुद्राः प्राद्रवन्भयात्
धनंजयं च मे शंस यद्यच्चक्रे रथर्षभः
तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च विशेषतः
यथासीच्च निवृत्तेषु पाण्डवेषु च संजय
मम सैन्यावशेषस्य संनिपातः सुदारुणः
मामकानां च ये शूराः कांस्तत्र समवारयन्