Mahabharata

Drona Parva, Adhyaya 22

Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 22, Verse 1

सर्वेषामेव मे ब्रूहि रथचिह्नानि संजय

ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः

Mahabharata

Drona Parva, Adhyaya 22, Verse 2

ऋश्यवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम्

रजताश्वस्ततः शूरः शैनेयः संन्यवर्तत

Mahabharata

Drona Parva, Adhyaya 22, Verse 3

दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः

वहन्तो नकुलं शीघ्रं तावकानभिदुद्रुवुः

Mahabharata

Drona Parva, Adhyaya 22, Verse 4

कृष्णास्तु मेघसंकाशाः सहदेवमुदायुधम्

भीमवेगा नरव्याघ्रमवहन्वातरंहसः

Mahabharata

Drona Parva, Adhyaya 22, Verse 5

हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे

अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम्

Mahabharata

Drona Parva, Adhyaya 22, Verse 6

राज्ञस्त्वनन्तरं राजा पाञ्चाल्यो द्रुपदोऽभवत्

जातरूपमयच्छत्रः सर्वैः स्वैरभिरक्षितः

Mahabharata

Drona Parva, Adhyaya 22, Verse 7

ललामैर्हरिभिर्युक्तैः सर्वशब्दक्षमैर्युधि

राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत

Mahabharata

Drona Parva, Adhyaya 22, Verse 8

तं विराटोऽन्वयात्पश्चात्सह शूरैर्महारथैः

केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च

स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः

Mahabharata

Drona Parva, Adhyaya 22, Verse 9

ते तु पाटलपुष्पाणां समवर्णा हयोत्तमाः

वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः

Mahabharata

Drona Parva, Adhyaya 22, Verse 10

हारिद्रसमवर्णास्तु जवना हेममालिनः

पुत्रं विराटराजस्य सत्वराः समुदावहन्

Mahabharata

Drona Parva, Adhyaya 22, Verse 11

इन्द्रगोपकवर्णैस्तु भ्रातरः पञ्च केकयाः

जातरूपसमाभासः सर्वे लोहितकध्वजाः

Mahabharata

Drona Parva, Adhyaya 22, Verse 12

ते हेममालिनः शूराः सर्वे युद्धविशारदाः

वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः

Mahabharata

Drona Parva, Adhyaya 22, Verse 13

आमपात्रनिभाकाराः पाञ्चाल्यममितौजसम्

दान्तास्ताम्रारुणा युक्ताः शिखण्डिनमुदावहन्

Mahabharata

Drona Parva, Adhyaya 22, Verse 14

तथा द्वादशसाहस्राः पाञ्चालानां महारथाः

तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वयुः

Mahabharata

Drona Parva, Adhyaya 22, Verse 15

पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष

आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः

Mahabharata

Drona Parva, Adhyaya 22, Verse 16

धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः

काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः

Mahabharata

Drona Parva, Adhyaya 22, Verse 17

बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः

पलालधूमवर्णाभाः सैन्धवाः शीघ्रमावहन्

Mahabharata

Drona Parva, Adhyaya 22, Verse 18

मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः स्वलंकृताः

शूरं शिखण्डिनः पुत्रं क्षत्रदेवमुदावहन्

Mahabharata

Drona Parva, Adhyaya 22, Verse 19

युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः

काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम्

Mahabharata

Drona Parva, Adhyaya 22, Verse 20

श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः

यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन्

Mahabharata

Drona Parva, Adhyaya 22, Verse 21

सुतसोमं तु यं धौम्यात्पार्थः पुत्रमयाचत

माषपुष्पसवर्णास्तमवहन्वाजिनो रणे

Mahabharata

Drona Parva, Adhyaya 22, Verse 22

सहस्रसोमप्रतिमा बभूवुः; पुरे कुरूणामुदयेन्दुनाम्नि

तस्मिञ्जातः सोमसंक्रन्दमध्ये; यस्मात्तस्मात्सुतसोमोऽभवत्सः

Mahabharata

Drona Parva, Adhyaya 22, Verse 23

नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः

आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन्

Mahabharata

Drona Parva, Adhyaya 22, Verse 24

काञ्चनप्रतिमैर्योक्त्रैर्मयूरग्रीवसंनिभाः

द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमावहन्

Mahabharata

Drona Parva, Adhyaya 22, Verse 25

श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः

ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः

Mahabharata

Drona Parva, Adhyaya 22, Verse 26

यमाहुरध्यर्धगुणं कृष्णात्पार्थाच्च संयुगे

अभिमन्युं पिशङ्गास्तं कुमारमवहन्रणे

Mahabharata

Drona Parva, Adhyaya 22, Verse 27

एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः

तं बृहन्तो महाकाया युयुत्सुमवहन्रणे

Mahabharata

Drona Parva, Adhyaya 22, Verse 28

पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम्

ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलंकृताः

Mahabharata

Drona Parva, Adhyaya 22, Verse 29

कुमारं शितिपादास्तु रुक्मपत्रैरुरश्छदैः

सौचित्तिमवहन्युद्धे यन्तुः प्रेष्यकरा हयाः

Mahabharata

Drona Parva, Adhyaya 22, Verse 30

रुक्मपृष्ठावकीर्णास्तु कौशेयसदृशा हयाः

सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन्