Mahabharata

Drona Parva, Adhyaya 21

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 21, Verse 1

भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे

पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत

Mahabharata

Drona Parva, Adhyaya 21, Verse 2

आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम्

असेवितां कापुरुषैः सेवितां पुरुषर्षभैः

Mahabharata

Drona Parva, Adhyaya 21, Verse 3

स हि वीरो नरः सूत यो भग्नेषु निवर्तते

अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम्

Mahabharata

Drona Parva, Adhyaya 21, Verse 4

जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम्

त्यजन्तमाहवे प्राणान्संनद्धं चित्रयोधिनम्

Mahabharata

Drona Parva, Adhyaya 21, Verse 5

महेष्वासं नरव्याघ्रं द्विषतामघवर्धनम्

कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम्

Mahabharata

Drona Parva, Adhyaya 21, Verse 6

भारद्वाजं तथानीके दृष्ट्वा शूरमवस्थितम्

के वीराः संन्यवर्तन्त तन्ममाचक्ष्व संजय

Mahabharata

Drona Parva, Adhyaya 21, Verse 7

तान्दृष्ट्वा चलितान्संख्ये प्रणुन्नान्द्रोणसायकैः

पाञ्चालान्पाण्डवान्मत्स्यान्सृञ्जयांश्चेदिकेकयान्

Mahabharata

Drona Parva, Adhyaya 21, Verse 8

द्रोणचापविमुक्तेन शरौघेणासुहारिणा

सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान्

Mahabharata

Drona Parva, Adhyaya 21, Verse 9

कौरवाः सिंहनादेन नानावाद्यस्वनेन च

रथद्विपनराश्वैश्च सर्वतः पर्यवारयन्

Mahabharata

Drona Parva, Adhyaya 21, Verse 10

तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसंवृतः

दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव

Mahabharata

Drona Parva, Adhyaya 21, Verse 11

पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः

सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना

Mahabharata

Drona Parva, Adhyaya 21, Verse 12

नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः

यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः

Mahabharata

Drona Parva, Adhyaya 21, Verse 13

अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना

पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः

Mahabharata

Drona Parva, Adhyaya 21, Verse 14

संनिरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना

एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः

Mahabharata

Drona Parva, Adhyaya 21, Verse 15

भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः

अन्योन्यं समलीयन्त पलायनपरायणाः

Mahabharata

Drona Parva, Adhyaya 21, Verse 16

एष भीमो दृढक्रोधो हीनः पाण्डवसृञ्जयैः

मदीयैरावृतो योधैः कर्ण तर्जयतीव माम्

Mahabharata

Drona Parva, Adhyaya 21, Verse 17

व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः

निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः

Mahabharata

Drona Parva, Adhyaya 21, Verse 18

नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत्

न चेमान्पुरुषव्याघ्र सिंहनादान्विशक्ष्यते

Mahabharata

Drona Parva, Adhyaya 21, Verse 19

न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः

शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः

Mahabharata

Drona Parva, Adhyaya 21, Verse 20

विषाग्निद्यूतसंक्लेशान्वनवासं च पाण्डवाः

स्मरमाणा न हास्यन्ति संग्राममिति मे मतिः

Mahabharata

Drona Parva, Adhyaya 21, Verse 21

निकृतो हि महाबाहुरमितौजा वृकोदरः

वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति

Mahabharata

Drona Parva, Adhyaya 21, Verse 22

असिना धनुषा शक्त्या हयैर्नागैर्नरै रथैः

आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति

Mahabharata

Drona Parva, Adhyaya 21, Verse 23

तमेते चानुवर्तन्ते सात्यकिप्रमुखा रथाः

पाञ्चालाः केकया मत्स्याः पाण्डवाश्च विशेषतः

Mahabharata

Drona Parva, Adhyaya 21, Verse 24

शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः

विशेषतश्च भीमेन संरब्धेनाभिचोदिताः

Mahabharata

Drona Parva, Adhyaya 21, Verse 25

ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुंगवाः

वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव

Mahabharata

Drona Parva, Adhyaya 21, Verse 26

एकायनगता ह्येते पीडयेयुर्यतव्रतम्

अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः

असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे

Mahabharata

Drona Parva, Adhyaya 21, Verse 27

अतिभारं त्वहं मन्ये भारद्वाजे समाहितम्

ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः

काका इव महानागं मा वै हन्युर्यतव्रतम्

Mahabharata

Drona Parva, Adhyaya 21, Verse 28

राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा

भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति

Mahabharata

Drona Parva, Adhyaya 21, Verse 29

तत्रारावो महानासीदेकं द्रोणं जिघांसताम्

पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः