Mahabharata

Drona Parva, Adhyaya 20

Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 20, Verse 1

ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम्

महता शरवर्षेण प्रत्यगृह्णादभीतवत्

Mahabharata

Drona Parva, Adhyaya 20, Verse 2

ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले

जिघृक्षति महासिंहे गजानामिव यूथपम्

Mahabharata

Drona Parva, Adhyaya 20, Verse 3

दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः

युधिष्ठिरं परिप्रेप्सुमाचार्यं समुपाद्रवत्

Mahabharata

Drona Parva, Adhyaya 20, Verse 4

तत आचार्यपाञ्चाल्यौ युयुधाते परस्परम्

विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव

Mahabharata

Drona Parva, Adhyaya 20, Verse 5

ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः

अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः

Mahabharata

Drona Parva, Adhyaya 20, Verse 6

स शीघ्रतरमादाय धनुरन्यत्प्रतापवान्

द्रोणं सोऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः

Mahabharata

Drona Parva, Adhyaya 20, Verse 7

ज्ञात्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे

वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमर्दयत्

Mahabharata

Drona Parva, Adhyaya 20, Verse 8

संछाद्यमानं समरे द्रोणं दृष्ट्वा महारथम्

चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह

Mahabharata

Drona Parva, Adhyaya 20, Verse 9

वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे

विव्याध बलवान्राजंस्तदद्भुतमिवाभवत्

Mahabharata

Drona Parva, Adhyaya 20, Verse 10

द्रोणस्तु शरवर्षेण छाद्यमानो महारथः

वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी

Mahabharata

Drona Parva, Adhyaya 20, Verse 11

ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च

षड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीद्वृकम्

Mahabharata

Drona Parva, Adhyaya 20, Verse 12

अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम्

साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम्

Mahabharata

Drona Parva, Adhyaya 20, Verse 13

स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दनं मृधे

ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान्

Mahabharata

Drona Parva, Adhyaya 20, Verse 14

हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी

अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः

Mahabharata

Drona Parva, Adhyaya 20, Verse 15

तथा संछिद्यमानेषु कार्मुकेषु पुनः पुनः

पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत्

Mahabharata

Drona Parva, Adhyaya 20, Verse 16

स सत्यजितमालक्ष्य तथोदीर्णं महाहवे

अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः

Mahabharata

Drona Parva, Adhyaya 20, Verse 17

तस्मिन्हते महामात्रे पाञ्चालानां रथर्षभे

अपायाज्जवनैरश्वैर्द्रोणात्त्रस्तो युधिष्ठिरः

Mahabharata

Drona Parva, Adhyaya 20, Verse 18

पाञ्चालाः केकया मत्स्याश्चेदिकारूषकोसलाः

युधिष्ठिरमुदीक्षन्तो हृष्टा द्रोणमुपाद्रवन्

Mahabharata

Drona Parva, Adhyaya 20, Verse 19

ततो युधिष्ठिरप्रेप्सुराचार्यः शत्रुपूगहा

व्यधमत्तान्यनीकानि तूलराशिमिवानिलः

Mahabharata

Drona Parva, Adhyaya 20, Verse 20

निर्दहन्तमनीकानि तानि तानि पुनः पुनः

द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत

Mahabharata

Drona Parva, Adhyaya 20, Verse 21

सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः

षड्भिः ससूतं सहयं द्रोणं विद्ध्वानदद्भृशम्

Mahabharata

Drona Parva, Adhyaya 20, Verse 22

तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम्

क्षुरेणापाहरत्तूर्णं ततो मत्स्याः प्रदुद्रुवुः

Mahabharata

Drona Parva, Adhyaya 20, Verse 23

मत्स्याञ्जित्वाजयच्चेदीन्कारूषान्केकयानपि

पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनः पुनः

Mahabharata

Drona Parva, Adhyaya 20, Verse 24

तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम्

दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः

Mahabharata

Drona Parva, Adhyaya 20, Verse 25

उत्तमं ह्यादधानस्य धनुरस्याशुकारिणः

ज्याघोषो निघ्नतोऽमित्रान्दिक्षु सर्वासु शुश्रुवे

Mahabharata

Drona Parva, Adhyaya 20, Verse 26

नागानश्वान्पदातींश्च रथिनो गजसादिनः

रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः

Mahabharata

Drona Parva, Adhyaya 20, Verse 27

नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये

अश्मवर्षमिवावर्षत्परेषां भयमादधत्

Mahabharata

Drona Parva, Adhyaya 20, Verse 28

सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव

बली शूरो महेष्वासो मित्राणामभयंकरः

Mahabharata

Drona Parva, Adhyaya 20, Verse 29

तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्

दिक्षु सर्वास्वपश्याम द्रोणस्यामिततेजसः

Mahabharata

Drona Parva, Adhyaya 20, Verse 30

द्रोणस्तु पाण्डवानीके चकार कदनं महत्

यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः