Drona Parva, Adhyaya 19, Verse 1
परिणाम्य निशां तां तु भारद्वाजो महारथः
बहूक्त्वा च ततो राजन्राजानं च सुयोधनम्
Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.
परिणाम्य निशां तां तु भारद्वाजो महारथः
बहूक्त्वा च ततो राजन्राजानं च सुयोधनम्
विधाय योगं पार्थेन संशप्तकगणैः सह
निष्क्रान्ते च रणात्पार्थे संशप्तकवधं प्रति
व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम्
अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया
व्यूहं दृष्ट्वा सुपर्णं तु भारद्वाजकृतं तदा
व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः
मुखमासीत्सुपर्णस्य भारद्वाजो महारथः
शिरो दुर्योधनो राजा सोदर्यैः सानुगैः सह
चक्षुषी कृतवर्मा च गौतमश्चास्यतां वरः
भूतवर्मा क्षेमशर्मा करकर्षश्च वीर्यवान्
कलिङ्गाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः
शका यवनकाम्बोजास्तथा हंसपदाश्च ये
ग्रीवायां शूरसेनाश्च दरदा मद्रकेकयाः
गजाश्वरथपत्त्यौघास्तस्थुः शतसहस्रशः
भूरिश्रवाः शलः शल्यः सोमदत्तश्च बाह्लिकः
अक्षौहिण्या वृता वीरा दक्षिणं पक्षमाश्रिताः
विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः
वामं पक्षं समाश्रित्य द्रोणपुत्राग्रगाः स्थिताः
पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौण्ड्रमद्रकाः
गान्धाराः शकुनिप्राग्याः पार्वतीया वसातयः
पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः
महत्या सेनया तस्थौ नानाध्वजसमुत्थया
जयद्रथो भीमरथः सांयात्रिकसभो जयः
भूमिंजयो वृषक्राथो नैषधश्च महाबलः
वृता बलेन महता ब्रह्मलोकपुरस्कृताः
व्यूहस्योपरि ते राजन्स्थिता युद्धविशारदाः
द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः
वातोद्धूतार्णवाकारः प्रवृत्त इव लक्ष्यते
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः
सविद्युत्स्तनिता मेघाः सर्वदिग्भ्य इवोष्णगे
तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम्
आस्थितः शुशुभे राजन्नंशुमानुदये यथा
माल्यदामवता राजा श्वेतच्छत्रेण धार्यता
कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना
नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ
अभिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान्
नानानृपतिभिर्वीरैर्विविधायुधभूषणैः
समन्वितः पार्वतीयैः शक्रो देवगणैरिव
ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम्
अजय्यमरिभिः संख्ये पार्षतं वाक्यमब्रवीत्
ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो
पारावतसवर्णाश्व तथा नीतिर्विधीयताम्
द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत
अहमावारयिष्यामि द्रोणमद्य सहानुगम्
मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि
न हि शक्तो रणे द्रोणो विजेतुं मां कथंचन
एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली
पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत्
अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम्
क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव
तं तु संप्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्शनः
प्रियं चिकीर्षन्द्रोणस्य धृष्टद्युम्नमवारयत्
स संप्रहारस्तुमुलः समरूप इवाभवत्
पार्षतस्य च शूरस्य दुर्मुखस्य च भारत
पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम्
भारद्वाजं शरौघेण महता समवारयत्
द्रोणमावारितं दृष्ट्वा भृशायस्तस्तवात्मजः
नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत्