Mahabharata

Drona Parva, Adhyaya 18

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 18, Verse 1

दृष्ट्वा तु संनिवृत्तांस्तान्संशप्तकगणान्पुनः

वासुदेवं महात्मानमर्जुनः समभाषत

Mahabharata

Drona Parva, Adhyaya 18, Verse 2

चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति

नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः

Mahabharata

Drona Parva, Adhyaya 18, Verse 3

पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च

अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव

Mahabharata

Drona Parva, Adhyaya 18, Verse 4

ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम्

प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः

Mahabharata

Drona Parva, Adhyaya 18, Verse 5

बभ्राजे स रथोऽत्यर्थमुह्यमानो रणे तदा

उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः

Mahabharata

Drona Parva, Adhyaya 18, Verse 6

मण्डलानि ततश्चक्रे गतप्रत्यागतानि च

यथा शक्ररथो राजन्युद्धे देवासुरे पुरा

Mahabharata

Drona Parva, Adhyaya 18, Verse 7

अथ नारायणाः क्रुद्धा विविधायुधपाणयः

छादयन्तः शरव्रातैः परिवव्रुर्धनंजयम्

Mahabharata

Drona Parva, Adhyaya 18, Verse 8

अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ

कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनंजयम्

Mahabharata

Drona Parva, Adhyaya 18, Verse 9

क्रुद्धस्तु फल्गुनः संख्ये द्विगुणीकृतविक्रमः

गाण्डीवमुपसंमृज्य तूर्णं जग्राह संयुगे

Mahabharata

Drona Parva, Adhyaya 18, Verse 10

बद्ध्वा च भृकुटीं वक्त्रे क्रोधस्य प्रतिलक्षणम्

देवदत्तं महाशङ्खं पूरयामास पाण्डवः

Mahabharata

Drona Parva, Adhyaya 18, Verse 11

अथास्त्रमरिसंघघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः

ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक्

Mahabharata

Drona Parva, Adhyaya 18, Verse 12

आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः

अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जघ्निरे

Mahabharata

Drona Parva, Adhyaya 18, Verse 13

अयमर्जुनोऽयं गोविन्द इमौ यादवपाण्डवौ

इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे

Mahabharata

Drona Parva, Adhyaya 18, Verse 14

मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम्

अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः

Mahabharata

Drona Parva, Adhyaya 18, Verse 15

ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात्

कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम्

Mahabharata

Drona Parva, Adhyaya 18, Verse 16

अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि

माचेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः

Mahabharata

Drona Parva, Adhyaya 18, Verse 17

ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः

व्यसृजञ्शरवर्षाणि पार्थे नानाविधानि च

Mahabharata

Drona Parva, Adhyaya 18, Verse 18

ततो नैवार्जुनस्तत्र न रथो न च केशवः

प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः

Mahabharata

Drona Parva, Adhyaya 18, Verse 19

ततस्ते लब्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः

हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा

Mahabharata

Drona Parva, Adhyaya 18, Verse 20

भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः

सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष

Mahabharata

Drona Parva, Adhyaya 18, Verse 21

ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत्

क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन्

Mahabharata

Drona Parva, Adhyaya 18, Verse 22

तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय पाण्डवः

वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत्

Mahabharata

Drona Parva, Adhyaya 18, Verse 23

ततः संशप्तकव्रातान्साश्वद्विपरथायुधान्

उवाह भगवान्वायुः शुष्कपर्णचयानिव

Mahabharata

Drona Parva, Adhyaya 18, Verse 24

उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना

प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष

Mahabharata

Drona Parva, Adhyaya 18, Verse 25

तांस्तथा व्याकुलीकृत्य त्वरमाणो धनंजयः

जघान निशितैर्बाणैः सहस्राणि शतानि च

Mahabharata

Drona Parva, Adhyaya 18, Verse 26

शिरांसि भल्लैरहरद्बाहूनपि च सायुधान्

हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत्

Mahabharata

Drona Parva, Adhyaya 18, Verse 27

पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणाङ्गुलीन्

नानाङ्गावयवैर्हीनांश्चकारारीन्धनंजयः

Mahabharata

Drona Parva, Adhyaya 18, Verse 28

गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान्

शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान्

Mahabharata

Drona Parva, Adhyaya 18, Verse 29

मुण्डतालवनानीव तत्र तत्र चकाशिरे

छिन्नध्वजरथव्राताः केचित्केचित्क्वचित्क्वचित्

Mahabharata

Drona Parva, Adhyaya 18, Verse 30

सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः

पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः