Mahabharata

Drona Parva, Adhyaya 17

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 17, Verse 1

ततः संशप्तका राजन्समे देशे व्यवस्थिताः

व्यूह्यानीकं रथैरेव चन्द्रार्धाख्यं मुदान्विताः

Mahabharata

Drona Parva, Adhyaya 17, Verse 2

ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष

उदक्रोशन्नरव्याघ्राः शब्देन महता तदा

Mahabharata

Drona Parva, Adhyaya 17, Verse 3

स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत्

आवृतत्वाच्च लोकस्य नासीत्तत्र प्रतिस्वनः

Mahabharata

Drona Parva, Adhyaya 17, Verse 4

अतीव संप्रहृष्टांस्तानुपलभ्य धनंजयः

किंचिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत्

Mahabharata

Drona Parva, Adhyaya 17, Verse 5

पश्यैतान्देवकीमातर्मुमूर्षूनद्य संयुगे

भ्रातॄंस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान्

Mahabharata

Drona Parva, Adhyaya 17, Verse 6

अथ वा हर्षकालोऽयं त्रैगर्तानामसंशयम्

कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्त्यनुत्तमान्

Mahabharata

Drona Parva, Adhyaya 17, Verse 7

एवमुक्त्वा महाबाहुर्हृषीकेशं ततोऽर्जुनः

आससाद रणे व्यूढां त्रैगर्तानामनीकिनीम्

Mahabharata

Drona Parva, Adhyaya 17, Verse 8

स देवदत्तमादाय शङ्खं हेमपरिष्कृतम्

दध्मौ वेगेन महता फल्गुनः पूरयन्दिशः

Mahabharata

Drona Parva, Adhyaya 17, Verse 9

तेन शब्देन वित्रस्ता संशप्तकवरूथिनी

निश्चेष्टावस्थिता संख्ये अश्मसारमयी यथा

Mahabharata

Drona Parva, Adhyaya 17, Verse 10

वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः

विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः

Mahabharata

Drona Parva, Adhyaya 17, Verse 11

उपलभ्य च ते संज्ञामवस्थाप्य च वाहिनीम्

युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः

Mahabharata

Drona Parva, Adhyaya 17, Verse 12

तान्यर्जुनः सहस्राणि दश पञ्चैव चाशुगैः

अनागतान्येव शरैश्चिच्छेदाशुपराक्रमः

Mahabharata

Drona Parva, Adhyaya 17, Verse 13

ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः

प्रत्यविध्यंस्ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः

Mahabharata

Drona Parva, Adhyaya 17, Verse 14

एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः

स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी

Mahabharata

Drona Parva, Adhyaya 17, Verse 15

भूय एव तु संरब्धास्तेऽर्जुनं सहकेशवम्

आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः

Mahabharata

Drona Parva, Adhyaya 17, Verse 16

ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति

भ्रमराणामिव व्राताः फुल्लद्रुमगणे वने

Mahabharata

Drona Parva, Adhyaya 17, Verse 17

ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैर्दृढैः

अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम्

Mahabharata

Drona Parva, Adhyaya 17, Verse 18

तैः किरीटी किरीटस्थैर्हेमपुङ्खैरजिह्मगैः

शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः

Mahabharata

Drona Parva, Adhyaya 17, Verse 19

हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः

चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत्

Mahabharata

Drona Parva, Adhyaya 17, Verse 20

ततः सुशर्मा दशभिः सुरथश्च किरीटिनम्

सुधर्मा सुधनुश्चैव सुबाहुश्च समर्पयन्

Mahabharata

Drona Parva, Adhyaya 17, Verse 21

तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः

प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद काञ्चनान्

Mahabharata

Drona Parva, Adhyaya 17, Verse 22

सुधन्वनो धनुश्छित्त्वा हयान्वै न्यवधीच्छरैः

अथास्य सशिरस्त्राणं शिरः कायादपाहरत्

Mahabharata

Drona Parva, Adhyaya 17, Verse 23

तस्मिंस्तु पतिते वीरे त्रस्तास्तस्य पदानुगाः

व्यद्रवन्त भयाद्भीता येन दौर्योधनं बलम्

Mahabharata

Drona Parva, Adhyaya 17, Verse 24

ततो जघान संक्रुद्धो वासविस्तां महाचमूम्

शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः

Mahabharata

Drona Parva, Adhyaya 17, Verse 25

ततो भग्ने बले तस्मिन्विप्रयाते समन्ततः

सव्यसाचिनि संक्रुद्धे त्रैगर्तान्भयमाविशत्

Mahabharata

Drona Parva, Adhyaya 17, Verse 26

ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः

अमुह्यंस्तत्र तत्रैव त्रस्ता मृगगणा इव

Mahabharata

Drona Parva, Adhyaya 17, Verse 27

ततस्त्रिगर्तराट्क्रुद्धस्तानुवाच महारथान्

अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ

Mahabharata

Drona Parva, Adhyaya 17, Verse 28

शप्त्वा तु शपथान्घोरान्सर्वसैन्यस्य पश्यतः

गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यगाः

Mahabharata

Drona Parva, Adhyaya 17, Verse 29

नावहास्याः कथं लोके कर्मणानेन संयुगे

भवेम सहिताः सर्वे निवर्तध्वं यथाबलम्

Mahabharata

Drona Parva, Adhyaya 17, Verse 30

एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः

शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम्